________________
|क्तनिखिलपापस्थानं तपस्विनमेकमद्राक्षीत् दृष्ट्वा च तमसौ अहो ! अपूर्वा काचिदेतस्य रूपलक्ष्मीः अनन्यसमाना सौम्यता असाधारणा क्षान्तिः अनन्यतुल्या निःसङ्गतेत्यादि चिन्तयन् परं विस्मयमगात्, विस्मितचित्तश्च नृपतिस्तदन्तिकमागत्य प्रदक्षिणा करणपूर्वमभिवन्द्यानतिदूरदेशविहितासनपरिग्रहो विनयविरचिताञ्जलिपुटस्तमवोचत्, यथा-भगवन् ! भवान् किमिति तरुण एव विषयसौख्योपभोगकाले विशिष्टरूपविग्रहोऽप्यविग्रहः सकलभोगाङ्गपरित्याग सुस्थितं व्रतं कर्त्तुमारब्धवान् ? इति ज्ञातुमिच्छति सकौतुकं नश्चेतः, तत्कथ्यतां यदीह नातिबाधकं स्वाध्यायादियोगानामित्युक्तः स मुनिस्तमुवाच - महाराज ! श्रूयतां यदि कौतुकं, अहमनाथतादुःखदुःखितो नानाविधारातिभिः पराभूयमानस्तथाविधं कमपि माभीप्रदातारमपरमपश्यन्नत्यन्तनिर्विण्णो व्रतं कर्त्तुमारब्धवान्, एतच्चाकर्ण्य किञ्चित्सप्रहासवदनः श्रेणिकोऽवदत्-भगवन् ! एवंविधविशिष्टाऽऽकृत्युपलक्ष्यमाणगुणवत्त्ववशीकृताशेषसम्पदोऽपि तव कथमनाथत्वं ?, यतो " यत्राकृतिस्तत्र गुणा वसन्ती”ति लोकप्रवादः, तथा “ सूरे त्यागिनि विदुषि च वसति जनः स च जनाद्गुणीभवति । गुणवति धनं
धनाच्छ्रीः श्रीमत्याज्ञा ततो राज्यम् ॥ १ ॥ " एवंविधश्वान्यजनस्यापि नाथो भवति, यदि चानाथतामात्रमेव प्रव्रज्या
Jain Education Internationa
For Private & Personal Use Only
www.jainelibrary.org