________________
निर्गत्याऽऽवा कक्षां च निरीक्ष्यमाणाऽऽस्ते, तदलोकयावः कक्षान्तरं किमत्र कारणमित्यालोच्य सर्वतः कक्षान्तरं दृष्टभवन्तौ तावद् यावदवलोकयांबभूवतुस्तदण्डकयुग्मं, गृहीत्वा च तत्तावागतौ निजवश्म, समर्पितं च स्वस्वदासानामेकैकं |
तद्रक्षणार्थमनया बुद्धया, यथा निष्पन्नमेतन्मयूरयुग्ममावयोः क्रीडायै भविष्यति, तयोश्च सागरदत्तपुत्रः स्वगृहीतम-13 यूराण्डके शडून कृतवान् यथा किमिदं निष्पत्स्यते नवेति शङ्कापरिगतश्च स नित्यमागत्यानेकाभिरुद्वर्तनादिभिस्तद्वाधिकाभिः प्रतिजागरणाभिः परिजागर्ति स्म, अन्तःसारपरीक्षणार्थ च तत्कर्णमूलमानीयानेकधा खलखलयति स्म, एवं N|च गच्छत्सु दिवसेषु तत्तथाऽननुकूलचेष्टाभिर्विशुष्कमालोक्य विषण्णः सागरदत्तपुत्रो गतश्च पश्चात्तापं, यथा-किमि |
दमित्थं मयोहर्तनादिभिः खेदितं ? जिनदत्तपुत्रस्तु तत्र निःशङ्क एव नोद्वर्तनादि किञ्चित्कृतवान्, केवलं विधिना पालितवान्, अन्यदा च स्वकालक्रमेण निष्पन्नो मयूरपोतो दृष्टः तेन हरमानसेनाकारितोमयुरपोषक: सन्मानपुरस्सरं भणितश्च-यथाऽयं मयूरपोतो विशिष्टप्रायोग्यद्रव्यपरिपोषणाभिः शीघ्रमेव परिपुष्टो भवति नृत्तकलां च विशिष्टामभ्यस्यति तथा विधीयतां, तेनापि तद्वचनमनुमत्य गृहीतो मयूरपोतो नीतः स्वगृहं प्रारब्धः पोषयितुमनेकद्रव्योपचारैः al शिक्षितश्च विविधभङ्गीमिास्यलीलां तावद् यावदुन्मुक्तबालभावः परिपूर्णमानोन्मानप्रमाणो विचित्रगुरुकलाकलापोपेत
For Private
Personel Use Only
Traw.jainelibrary.org