SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ राण्डज्ञात नवपद- बृहसम्यक्त्वा धि. ॥६१॥ इहैव जम्बूद्वीपे भारतक्षेत्रालङ्कारभूता चम्पा नगरी, तस्या उत्तरपूर्वस्यां दिशि सुरभिशीतलच्छायविविध- शङ्कायां मयूवनखण्डमण्डितं सर्व कप्रसवफलप्रचयकलितं सुभूमिभागाभिधानमुद्यानं, तदेकदेशवर्त्तिमालुकाकच्छनिवासिन्येका वनमयूरी बभूव, सा चान्यदा स्वकालक्रमोपचितं कललताधारमनुपहतमखण्डपाण्डुरमण्डकयुग्ममसुत, इतश्च तस्यामेव चम्पायां तदा जिनदत्तसागरदत्तपुत्रौ सहपांशुक्रीडितौ परस्परं मित्रत्वसंपन्नौ सार्थवाहसुतावभूतां। तौ च कदाचित् सुभूमिभागोद्यानमुद्यानश्रियमनुभवितुमशनपानखाद्यस्वाद्यधूपपुष्पगन्धादि समादाय गणिकया देवदत्तया परिगतौ समागतो, तत्र च पुष्करिणीषु नानाविधभङ्गीभिर्जलक्रीडां विधाय देवदत्तया साई कामभोगलालसौ चिरं स्थित्वा तस्यैवोद्यानस्य रम्यरम्यतरान् प्रदेशानवलोकयन्तौ। तमेव मालुकाकक्षं प्रविविशतुः, ततश्च सा वनमयूरी तावालोक्य त्रस्तमानसा महतः केकारवान् | कुर्वती ततो निष्क्रम्य तदनतिदूरवर्त्तिवृक्षशाखाधिरूढा सार्थवाहपुत्रौ मालुकाकक्षं चानिमेषया दृष्टयाऽवलोकयन्ती| तस्थौ. तौ तु तां वनमयरी तथा दृष्टा परस्परं मन्त्रितवन्तौ-यथा भवितव्यमत्र केनचित्कारणेन येनागतमात्रावेवावां| दृष्ट्रेयं वनशिखण्डिनी खण्डितेव महादुःखाभिभूता जाता, न चैतावतैव स्थिता, किन्तु त्रासवशविवशदृष्टिरितो| www.jainelibrary.org Jain d For Private Personal Use Only an
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy