________________
राण्डज्ञात
नवपद- बृहसम्यक्त्वा धि. ॥६१॥
इहैव जम्बूद्वीपे भारतक्षेत्रालङ्कारभूता चम्पा नगरी, तस्या उत्तरपूर्वस्यां दिशि सुरभिशीतलच्छायविविध- शङ्कायां मयूवनखण्डमण्डितं सर्व कप्रसवफलप्रचयकलितं सुभूमिभागाभिधानमुद्यानं, तदेकदेशवर्त्तिमालुकाकच्छनिवासिन्येका वनमयूरी बभूव, सा चान्यदा स्वकालक्रमोपचितं कललताधारमनुपहतमखण्डपाण्डुरमण्डकयुग्ममसुत, इतश्च तस्यामेव चम्पायां तदा जिनदत्तसागरदत्तपुत्रौ सहपांशुक्रीडितौ परस्परं मित्रत्वसंपन्नौ सार्थवाहसुतावभूतां। तौ च कदाचित् सुभूमिभागोद्यानमुद्यानश्रियमनुभवितुमशनपानखाद्यस्वाद्यधूपपुष्पगन्धादि समादाय गणिकया देवदत्तया परिगतौ समागतो, तत्र च पुष्करिणीषु नानाविधभङ्गीभिर्जलक्रीडां विधाय देवदत्तया साई कामभोगलालसौ चिरं स्थित्वा तस्यैवोद्यानस्य रम्यरम्यतरान् प्रदेशानवलोकयन्तौ। तमेव मालुकाकक्षं प्रविविशतुः, ततश्च सा वनमयूरी तावालोक्य त्रस्तमानसा महतः केकारवान् | कुर्वती ततो निष्क्रम्य तदनतिदूरवर्त्तिवृक्षशाखाधिरूढा सार्थवाहपुत्रौ मालुकाकक्षं चानिमेषया दृष्टयाऽवलोकयन्ती| तस्थौ. तौ तु तां वनमयरी तथा दृष्टा परस्परं मन्त्रितवन्तौ-यथा भवितव्यमत्र केनचित्कारणेन येनागतमात्रावेवावां| दृष्ट्रेयं वनशिखण्डिनी खण्डितेव महादुःखाभिभूता जाता, न चैतावतैव स्थिता, किन्तु त्रासवशविवशदृष्टिरितो|
www.jainelibrary.org
Jain d
For Private Personal Use Only
an