________________
Jain Education Inmig
कर्त्तव्यमिति शेषः, अयमेव चाभिप्रायो मूलवृत्तौ लक्ष्यते, त्ति आदिशब्देन सूतकादिहुणणाइ ग्रहणात्, तथा 'लौकिकतपःकरणं वत्सद्वादश्यादिष्वननिपक्कमक्षणादि, न कर्त्तव्यमिति संबन्ध इति, आदिशब्देन च - " पडिवन्नदंसणरस य ण बंदिउं पणमिउं च कप्पंति । अन्नाई चेइयाई परतित्थियदेवयाई च ॥ १ ॥ धम्मग्गिट्ठिगवहिग अणाहसालातलायपत्रबंधे । पिप्पलअसंजयाणं पावारफलाइ गोदाणं ॥ ३ ॥ " इत्यादि यदुक्तं ग्रन्थान्तरे तदपि सर्वं गुरुलध्वालोचने यथाऽन्येषां स्थिरीकरणप्रवृत्त्या मिध्यात्वादिविषयं न भवति तथा | पर्यालोच्य विधेयमिति सूचितम् एवं च कुर्वता सम्यक्त्वयतनाऽऽपराधिता भवतीति गाथाऽक्षरार्थः ॥ १७ ॥ व्याख्यातं | यतनाद्वारं षष्ठं, सम्प्रत्यतिचारद्वारं सम्यक्त्वस्य सप्तममभिधीयते
एत्थ य संका कंखा विइगिच्छा अन्नतित्थियपसंसा । परतित्थिओवसेवा य पंच दूति सम्मत्तं ॥ १८ ॥
C
'अत्रे 'ति सम्यक्त्वे चकारोऽनुक्तविशेषणसमुच्चये, ततो निश्चयतः प्रतिपतिते व्यवहारतो मलिनीकृते, किं ? - शङ्का काङ्क्षा विविचित्साऽन्यतीर्थिक प्रशंसा परतीर्थिकोपसेवा च एताः पञ्च भवन्तीतिशेषः, जाताच किं
For Private & Personal Use Only
www.jainelibrary.org