SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ नवपद- बृह. सम्यक्त्वाधि. सम्यक्त्वयतना गा.१७ लोइयतित्थे उण ण्हाणदाणपेसवणपिंडहुणणाई । संकंतुवरागाइसु लोइयतवकरणमिच्चाई ॥ १७ ॥ 'लोडयतित्थे। ति तीर्यतेऽनेनेति तीर्थ, तच्चेह द्रव्यतीर्थ नद्यादिसमभागरूपं, न भावतीर्थम् , अत एव । लोके-जने साधु भवं वा लौकिकं तच्च तत्तीर्थ चेति तत्तथा तत्र, किमित्याह-स्नानदानप्रेषणपिण्डड्वनादि, न कर्त्तव्यमिति शेषः, पुनःशब्दश्च विशेषणार्थः, तत एवं विशिनष्टि-लौकिकतीर्थे । गङ्गाकुशावर्तकनकखलादिके धर्मार्थिना धर्मनिमित्तं स्नानादि न विधेयं, तत्र स्नानं-शरीरस्य शौचकरणं दानं-धिग्जातिभ्यो वितरणं प्रेषणं अस्थ्यादेः प्रस्थापनं 'पिंड'त्ति अवयवमात्रेण समुदायस्य विवक्षितत्वात्पिण्डप्रदान-मृतपित्रादिनिमित्तं पिण्डपातकरणं ' हुणणं' ति हवनं-वह्नौ घृतादिप्रक्षेपणं, आदिशब्दाहिशिष्टयोगानुष्ठानतन्निवासादिग्रहः, कदा चेदं न । कर्त्तव्यमित्याह-सङ्क्रान्तिश्च-उत्तरायणादि सं(उ)परागश्च-सूर्यचन्द्रमसोर्ग्रहणं तावादी येषां व्यतीपातादीनां ते । तथा तेषु, अयमर्थः-लौकिकतीर्थ गत्वा सङ्क्रान्त्यादिषु स्नानादि न कर्तव्यं, यद्वा पृथगेव " सम्बन्धः, लौकिकतीथ स्नानादि न कर्त्तव्यं, सङ्क्रान्त्यादिषु च यल्लौकिकैस्तिलदानादि क्रियते तन्न Jain Education Inter For Private Personal Use Only mp.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy