SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ भुवनाभोगो दोषान्तकरः समुत्थितो भानुः । दर्शयितुमिव तवायं समगुणभावेन मित्रत्वम् ॥ ५२ ॥' उत्थाय ततः। कृत्वा प्रभातकृत्यानि सार्थवाहोऽपि । अगमत् सृरिसमीपं बहुभिः परिवारितो लोकैः ॥ ५३ ॥ तत्र च गतेन| 1 तेन-कारुण्यस्य निवासो धृतेर्निधानं निकेतनं नीतेः । वेश्म चतुर्विधबुद्धेराधारः साधुधर्मस्य ॥ ५४ ॥ सन्तोषामृतजलधिः क्रोधोद्धतदहनसजलजलवाहः । श्रीधर्मघोषसरिर्मुनिभिः परिवारितो दृष्टः ॥ ५५ ॥ अभिवन्दितश्च भक्त्या सह । मुनिभिरसौ प्रहृष्टचित्तेन । सार्थप्रभुणाऽऽत्मानं कृतार्थमभिमन्यमानेन ॥ ५६ ॥ गुरुणाऽभिनन्दितोऽसौ सादरमथ धर्मलाभवचनेन । भवमूलकर्मकुलशैलदलनवज्रानलेनोच्चैः ॥ ५७ ॥ उपविश्य ततोऽवादीद्धनो यथा नाथ ! पुण्यरहितस्य । रोहति न कल्पवृक्षो गृहे न वा पतति वसुधारा ॥ ५८ ॥ यतः--संसारजलधियोतं समतृणमणिलेष्टुकनकरिपुसुहृदम् । संप्राप्यापि भवन्तं सद्धर्मनिवेदकं सुगुरुम् ॥ ५९॥ न श्रुतममृतसमानं वचनं न कृता जगत्प्रशस्या च तव चरणकमलसेवा विहिता च न ते क्वचिच्चिन्ता ॥ ६०॥ युग्मम् । तदिदं प्रमादकरणं सहनीयं नाथ! मामकं भवता एतद्वचनावसितौ सूरिस्तमवोचदुचितज्ञः ॥ ६१ ॥ यथा-सार्थपते ! सन्तापं मा गास्त्वं येन सर्वमेवेह । कृतमस्माकं भवता पालयता क्रूरसत्त्वेभ्यः ॥ १२ ॥ आहारादि यथासंभवं च देशादियोग्यतासदृशम् । त्वत्सार्थिकलोकेभ्यः सर्व| Jain Education in For Private Personal Use Only Iw.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy