________________
धनसार्थवा
नवपद. बृह. सम्यक्त्वाधि.
॥५७॥
VIHD
मपि प्राणी क्षुधापीडितः ? ॥ ४०॥” एतच्चाकर्ण्य धनः क्षणमात्रं चिन्तया समाकान्तः । तामीर्ण्ययेव निद्रा, नुनोद तदनन्तरं तस्य ॥ ४१॥ अत्रान्तरे रजन्याः, पश्चिमयामेऽश्वमन्दुरापालः । आर्यामेकामपठडनसार्थपतिं । समुद्दिश्य ॥ ४२ ॥ 'पालयति प्रतिपन्नान् विषमदशामागतोऽपि सन्नाथः । खण्डीभूतोऽपि शशी कुमुदानि विकाशयत्यथवा ॥४३॥' श्रुत्वैतां सार्थपतिः विमुच्य निद्रां विचिन्तयामास । स्तवनच्छलेन नन्वहमनेन संप्रत्युपालब्धः ॥ ४४ ॥ तत्कोऽत्र सार्थमध्ये, गाढं दुःखार्दितोऽस्ति ? चिन्तयतः । सूरिप्रमुखा मुनयः, सहसा तस्यागताश्चित्तम् ॥४५॥ हा हा नैतावन्तं, कालं तेषां मया महावतिनाम् । नामापि सङ्गृहीतं, प्रतिजागरणादि दुरेऽस्तु ॥ ४६॥ कन्दफलादि तु तेषामभक्ष्यमिह तेन ते महामुनयः । अत्यन्तदुःखभाजो मच्चेतस्तर्कयत्येवम् ॥ ४७ ॥ अहह ! प्रमादमादरादारुणता यत्सदा कुचिन्तास । प्रेरयति जनं सद्विषयबुद्धिचैतन्यमपहरति ॥४८॥ तदिदानीमपि गत्वा प्रतिजागरणं करोम्युषसि तेषाम् । चिन्तयतस्तस्यैवं पठितार्या यामपालेन ॥ ४९ ॥ 'संसारेऽत्र मनुष्यो घटन| केनापि तेन सह लभते । देवस्यानभिलषतोऽपि यदशात्पतति सुखराशौ ॥५०॥ एतां च पठ्यमानामाकर्ण्य धनोऽपि चेतसा तुष्टः । मुनिसङ्गमोऽनया मे सुखावहः सूचितो यस्मात् ॥ ५१ ॥ अनावसरे पठितं कालनिवेदकेन- भूषित
॥ ५७॥
Jan Education Intematon
For Private
Personal Use Only