SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ | एवंविधे च काले गच्छन् सततप्रयाणकैः सार्थः । विविधश्वापदभीमा प्राप्तो विषमाटवीमेकाम् ॥ ३० ॥ सर्जार्जुन IN| सरलतमालतालहितालसल्लकैर्वृक्षैः । अवरुद्धकरप्रसरः सूरोऽपि न लक्ष्यते यत्र ॥ ३१ ॥ अत्रान्तरे-ग्रीष्मेण धरा-1 वलयं समस्तमुत्तापितं विलोक्यैव । तस्याश्वासनहेतोः पयोदसमयः समायातः ॥ ३२ ॥ ततः-तडिदुच्चलप्रतापो ग्रीष्मं । । गुरुगर्जितेन तर्जयति । धारासारप्रहरणविभीषणो वीर इव जलदः ॥ ३३ ॥ एवंविधे च समये विज्ञाय धनोऽति. मार्गदुर्गमताम् । आपृच्छय सार्थिकजनं तत्रैवावस्थितिं चक्रे ॥ ३४ ॥ भाण्डादिविनाशभयाद्विधाय किञ्चिच्च गुणलयनिकादि । तस्थः सार्थिकलोकाः वर्षानिर्वाहणनिमित्तम् ॥ ३५॥ तदा च-सार्थस्य बहजनत्वात् पथस्य बहृदिवसलङ्घनीयत्वात् । अभ्यधिकदानभावाद्धनस्य सार्थे समस्तेऽपि ॥ ३६ ॥ पाथेयादिक्षीणं पश्चात्तापं गतश्च तल्ले कः ।। लग्नश्च कन्दफलमूलभक्षणे पीडितः क्षुधया ॥ ३७ ॥ ततः-कथितं धनस्य रात्री पल्यङ्कगतस्य माणिभद्रेण ।। नाथ ! यथा संपन्नः सार्थजनः क्षीणपथ्यदनः ॥ ३८ ॥ कन्दफलमूलकाशी, तापसवृत्ति समाश्रित इदानीम् । लज्जा |विमुच्य परिहत्य पौरुषं मुक्तमर्यादः॥ ३९॥ यतः--मानं मुञ्चति गौरवं परिहरत्यायाति दैन्यात्मता, लज्जामुत्सजति श्रयत्यकरुणां नीचत्वमालम्बते । भार्याबन्धुसुहृत्सुतेष्वपकृतीर्नानाविधाश्चेष्टते, किं किं यन्न करोति निन्दित-- Jain Education india For Private & Personel Use Only N ow.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy