SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ नवपद ब्रह सम्यक्त्वा वि. ।। ५६ ।। Jain Education Int किञ्चित् । मुनिपुङ्गवेभ्य एभ्यः तत्सर्व देयमविकल्पम् ॥ १८ ॥ एवं श्रुत्वाऽऽचार्येण पुनरप्युक्तं यथा न सार्थपते ! । | आहारादिकमित्थं विचिन्तितं कल्पतेऽस्माकम् ॥ १९ ॥ यन्न कृतं नानुमतं न कारितं किन्त्वचिन्तितं गृहिणा || आत्मार्थमेव रचितं प्रायोग्यं तद् यतो व्रतिनाम् ॥ २० ॥ अत्रान्तरे धनस्य प्राभृतिकं कश्चिदर्पयामास । परिपक्कपुर. | भिसहकार सत्फलैः स्थालमापूर्णम् ॥ २१ ॥ तद्वीक्ष्य सार्थपतिना हृष्टेनोचे यथाऽनुगृह्णीत | भगवन्तः ! संप्रति मामुचि. तफलग्रहणतो यृयम् ॥ २२ ॥ आचार्यैरुक्तम् - सम्प्रत्येव निवेदितमेवं भवतो यथा गृहस्थैर्यत् । आहारादि कृतं स्यात | स्वार्थी तत्कल्पतेऽस्माकम् ॥ २३ ॥ कन्दफलमूलकादि तु शस्त्रोपहतं न यत्तदस्माकम् । स्प्रष्टुमपि नोचितं स्यात् किं पुनरिह खादितुं ? भद्र ! ॥ २४ ॥ तच्छ्रुत्वा तेन ततो, भणितमहो ! दुष्करं व्रतं भवताम् । शाश्वत सौख्यो मोक्षः सुखेन न प्राप्यते यद्वा | ॥ २५ ॥ एवं यद्यपि भवतामस्माभिः स्तोकमेव किल कार्यम् । पथि गच्छतां तथाऽपि स्यादपि तदवश्यमादेश्यम् ॥ २६ ॥ इत्युक्त्वा प्रणिपत्य प्रशस्य च प्राहिणोदसौ सूरीन् । तेऽप्युक्तधर्मलाभाः स्थण्डिलभुवमागताः शुद्धम् ॥ २७ ॥ स्वाध्यायध्यानपरास्तत्र स्थित्वा विभावरीं सकलाम् । याताः प्रभातसमये [ यं. १५०० ] साकं धनसार्थवाहेन ॥ २८ ॥ | तदा च - तापयति महीपृष्ठं शोषयति जलाशयांस्तृषं तनुते । नाशयति सरसभावान्निदाघसमयो गतो वृद्धिम् ॥ 1 २९ ॥ For Private & Personal Use Only धनसार्थवा ह कथा ५६ ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy