________________
घोषसूरिः, कुतोऽपि तद्घोषणां समाकर्ण्य । प्रेषयति स्म मुनियुगं, समीपमथ माणिभद्रस्य॥ ७॥ सर्वाधिकारचिन्तन-al परायणस्य खलु सार्थवाहस्य । तस्य सकाशे प्रहितं यतियुगलं सूरिणा तेन ॥ ८॥ युग्मम् । निजगृहसमागतं तत साधुयुगं वीक्ष्य माणिभद्रोऽथ । अभिवन्द्य विनयसारं, पप्रच्छागमनहेतुमसौ ॥ ९॥ साधुभ्यामुक्तम्-भो ! धर्मघोषसूरिभिरावां प्रहितौ समागतावत्र । धनसार्थपतेः श्रुत्वा, वसन्तपुरसंमुखं गमनम् ॥ १० ॥ तेन समं जिगमिषवोऽस्मत्पूज्या यदि च स बहुमतिं कुरुते । इत्युक्तः सोऽवादीदनुग्रहः सार्थवाहस्य ॥ ११॥ किन्तु-स्वयमेव गमनसमये सूरिभिरागत्य सार्थवाहोऽपि । भणनीय इति गदित्वा नत्वा तौ प्रेषयामास ॥ १२ ॥ गत्वा तपस्वियुग्मेन तेन सर्व निवेदितं सूरेः । तेनाथ तदनुमन्य स्वधर्मनिरतेन संतस्थे ॥ १३ ॥ अन्यस्मिन्नहनि ततः प्रशस्ततिथिकरणयोगनक्षत्रे । प्रस्थानमेष चक्रे नगरादविदूरभूभागे ॥ १४ ॥ तत्रस्थस्यायाता
आचार्यास्तस्य दर्शननिमित्तम् । बहुमुनिजनपरिवारा, दृष्टा धनसार्वाहेन ॥ १५ ॥ उत्थायासनदानाMद्यचितप्रतिपत्तिपर्वमभिवन्द्य । किं ययमपि समेष्यथ मया समं पष्टवानेवम् ॥ १६ ॥ अनुमन्यते यदि भवानित्येवं|
सूरयोऽपि तं बभणुः । आहूय सपकारं तदनन्तरमुक्तवानेषः ॥ १७ ॥ भो भद्र ! यद् यदा वाऽमीषामशनादि कल्पते
Jain Education inte
For Private & Personel Use Only
INITainelibrary.org