________________
तस्यान्यदा नन्दजीवस्य क्वचिदेवंविधं श्रुतपूर्व वचनमितीहापोहादि कुर्वतो जातिस्मरणमभूतु, ज्ञातवांश्च पूर्वभवप्रतिपन्नदेशविरतिभङ्गवृत्तान्तं, तत्कृतं च कुयोनिपातं गतो विषादं, ततश्च सैव देशविरतिः स्वीकृता, इतश्च प्रभति प्रासुकजलं मे पानं शुष्कशेवालादिराहारः, एवं प्रतिपन्नव्रतस्यास्य व्यतिक्रान्तः कियानपि कालः, अन्यदा तत्रैव ग्रामनगरादिषु विहरन् पुनः समवसृतस्तत्र वईमानस्वामी, जातो लोकप्रवादः, जलाद्यानयनायातश्राविकासंलापश्रवणतस्तस्यापि शालूरस्य जाता भगवदर्शनवन्दनादीच्छा, निर्गतस्ततः, शुभाध्यवसायो गन्तुमारब्धः, अन्तराले
च तुरङ्गखरखरचूर्णितदेहो व्रतायुच्चारयित्वा स्वयमेव परिहत्याष्टादश पापस्थानानि मृतो देवलोकमुत्पन्न इति कथासङ्IN|क्षेपः, विस्तरस्तु ज्ञाताधर्मकथातोऽवसेयः । उक्तं चतुर्थं दोषद्वारं सम्यक्त्वस्य, अधुना गुणद्वारं पञ्चममाह
सम्मत्तस्स गुणोऽयं अचिंतचिंतामणिस्स जं लहइ ।
सिवसग्गमणुयसुहसंगयाणि धणसत्थवाहोय ॥ १६ ॥ 'सम्यक्त्वस्य ' उक्तरूपस्य ‘गुणः । लाभः 'अयं ' एषः अचिन्त्यमाहात्म्यः चिन्तामणिरचिन्त्यचिलन्तामणिरिति शाकपार्थिवादिदर्शनान्मध्यपदलोपी समासस्तस्येति, अचिन्त्यमाहात्म्यता चाचिन्तितमोक्षादिफल
Jain Educationalitical
For Private & Personal Use Only
Jawww.jainelibrary.org