SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ नवपद. बृह. सम्यक्त्वा धि. ॥ ५४ ॥ कस्याञ्चिद्वेलायां पिपासावेदना प्रादुरभूत्, ततस्तया बाध्यमानश्चिन्तयामासन्न किञ्चिदुदकं विना जन्तूनां, यतो जलमन्तरेण गाढतृवेदना दोयमानमानसा म्रियन्त एव प्राणिनः, अत एव लोका वापीकूपतडा -- गादीन् जलाशयान् कारयन्ति, अतोऽहमपि यदि रजन्यां प्राणत्यागं न करिष्ये तदा कमपि जलाशयं कारयिष्ये, एवं च मिध्यात्वोदयप्रतिपतितसम्यक्त्वरत्नस्यानुचिन्तयतः कथमपि विभाता रात्रिः, प्रभातसमये च तथैव प्रतिपतितभावस्तथाविधविशिष्टप्राभृतक हस्तो गतो राजकुलं दृष्टो राजा, ढौकनीयार्पणपूर्वकं च याचितो जलाशयनिमित्तं भूमिखण्डं दत्तं राज्ञा, कारयितुमारब्धस्तत्र वापी, कालेन निष्पन्ना सा, तस्याः कारितानि चत्वारि द्वाराणि चतुर्ष्वपि द्वारेषु कारिताः सहकारायारामाः, तदासन्न एवं विधापितो वैदेशिकयोग्यः प्रतिश्रयः, प्रवर्त्तिता दानशाला एवं च प्रभूतद्रविणजातं व्ययित्वा तत्रैवातिमूर्च्छितः कदाचिदनुपक्रमणीयव्याधि विद्धवपुरार्त्तध्यानोपगतो मृत्वा तस्यामेव वाप्यां गर्भजशालूरत्वेनेापादि, लोकाश्च तत्र विश्रामादिनिमित्तमायाताः | | प्रतिपादयन्ति -- यथा धन्यः स नन्दमणिकारो येनेयमेवंविधारण्यभूमिरिव विविधकमलोपशोभिता सीतेव सन्निहितस| दारामा नवयौवनसुभगाङ्गनेव विशिष्टनरानन्ददायिनी वापी समुत्पादिता, इत्यादि श्लाघादिकं च लोकैर्विधीयमानमाकर्ण्य Jain Education International For Private & Personal Use Only सम्यक्त्वनाशे दोषाः गा. १५ ॥ ५४ ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy