SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Jain Education Int " प्राणी 'दुःखानां शारीरमानसानामसातोदयरूपाणां कुगतिगामितयेति शेषः, 'भाजनं पात्रं ' भवति जायते, ननु प्रतिज्ञामात्रमेतद् दृष्टान्तः क ? इत्याशङ्कायामाह -- नन्दमणिकारश्रेष्ठी ' तो निदर्शनं 'अत्र | वस्तुनि - सम्यक्त्व परिभ्रंशाज्जीवस्य दुःखभाजनभवनलक्षणे, इति गाथाऽक्षरार्थः ॥ भावार्थस्तु कथानकादवसेयः, | तच्चेदम् " पुरा राजगृहपत्तने श्रेणिकराजकाले धनधान्य कनकरज तद्विपदचतुष्पदादिसम्पदुपेतो नन्दमणिकारो गृहपतिरासीत्, तत्र च तदा श्रीमन्महावीरस्वामी समवसृतः कौतुकादिना च नन्दमणिकारस्तत्समीपं गतः, भगवता च प्रारब्धा धर्मदेशना प्ररूपितो नारकतिर्यङ्नरामरभवेषु दुःखगहनः संसारः, व्याख्याता निःशरणता प्राणिगणस्य, दर्शितः साधुश्रावकभेदेन द्विविधः संसारसागरोत्तरण हेतुर्धर्मः तं च समाक प्रतिबुद्धा अनेके प्राणिनः सोऽपि नन्दोऽत्रान्तरेऽभ्युत्थाय भगवन्तमभिवन्द्य च श्रावकत्वं प्रपेदे । अन्यदा च त्रैलोक्यबान्धवे भगवति सिन्धुविषयमुदायनराजश्रावकस्य प्रत्राजनार्थे गतवति नन्दमणिकारश्राव को ग्रीष्मचतुर्दश्यां पौषधिको बभूव, अस्तंगते रौ विहितः सायंतनावश्यकविधिः, धर्मध्यानस्तस्य चास्य For Private & Personal Use Only 978951 Www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy