________________
ततः पठनादि विधत्ते, साधुसद्भावे तु पूर्व एव विधिः, एवं पौषधशालायामपि, केवलं यथा गृहे आवश्यकं कुर्वाणो गृह्णाति तथैव गमनविरहित" ॥ अत्र तावत् मतं खरात्मजानां यदुत सामायिकविधौ प्राक् सामायिकोच्चारात् न कार्येर्या, पश्चादत्र सोद्दिष्टेति, पर नेत्रे निमील्य चिन्तनीयं तैर्यदुत ' सामायिकं करोति-त्यादि सूत्रं समुच्चार्य ' इत्यत्र क्त्वाप्रत्ययान्तेन संबद्धं प्रागेवान्वितं, पश्चात् । तत ईर्यापथिकी प्रतिक्रामत्यागमनं चालोचयति तत आचार्यादीन् यथारत्नाधिकतयाऽभिवन्द्य सर्वसाधन इत्यादि ' इत्यादिवाक्येन यो विधिः स्वतन्त्रतया निर्दिष्टः स कथं सामायिकेन संबध्यते !, अन्यथा साधूनां विरहे न भवत्येव सामायिकमित्यनिष्टमापनीपद्यमानं केन वायेंत !, किंच · चैत्यगृहे तु यदि साधवो न सन्ति तदेोपथिकीप्रतिक्रमणपूर्वमाग. मनालोचनां विधाय चैत्यवंदनां करोति ततः पठनादि विधत्ते' इत्यत्र किं न दृश्यते खरैस्तैः विनैव पुनः सामायिकोच्चारं कर्तव्यतयोक्तमीर्यादि, समालोचने |च पौर्वापर्यस्य व्यक्तमेतत् भविष्यति यदुत नैषा सामायिकप्रतिबद्धेर्या, किंतु आगमनालोचनादिप्रतिबद्धेति ।
अपरंच मतं खरात्मजानां यदुत अपर्वसु पौषधकरणमविधिः, तत्र आगमोक्तान्यष्टम्यादीनि पणि प्रसिद्धान्येव परमष्टाहिकाजन्मादिकल्याणकादीनां ग्रहणार्थं तैराश्रीयते एषा परं वृत्तिः, तदप्यविचारितमेव रमणीयं, यतः प्रथमं तावत् दृश्यतां पूर्वापरसंबन्धयुतः स पाठः
“ चशब्दो न केवलमाहारादीनां चतुणी निवर्त्तने पौषधोपवासः, किन्तु तदन्यतमनिवर्त्तनेऽपीत्यनुक्तसमुच्चयार्थः, कर्तव्यः विधेयः स नियमातनियमेन अष्टम्यादिपर्वसु-अष्टमीचतुर्दश्यादिषत्सवतिथिषु, यदुक्तं "पोसहउववासो उण अट्टमीचउद्दसीसु जन्मदिणे । नाणे निव्वाणे चाउमास अट्टाहिपज्जुसणे ॥ १ ॥ अट्टाहित्ति अष्टाहिकाः चैत्राश्वयुङ्मासानध्यायदिनेषु अष्टमीप्रभृतयो याः क्रियन्ते तासु कल्याणकदिनाष्टाहिकासु वा, एतेषु च दिनेषु सुश्रावकस्य जिनपूजातपोऽनुष्ठानविशेषोद्यमो भणित एव, यदाह धर्मदासगणिः-संवच्छरचाउम्मासिएसु अट्टाहियासु य तिहीसु । सव्वायरेण लग्गइ जिणवरप्यातवगुणेसु॥१॥" अत्र प्रथमं तावत् आहारशरीरसत्काराब्रह्मान्यापाराणामन्यतमस्मात् निवर्त्तनं पौषधतयाऽभिमतं,नियमकर्तव्यता चौस्याष्टम्यादिषु प्रोक्ता,
अभ्यादिपर्वसु-अष्टमीचतुःश्यायामासानध्यायदिनेषु अष्टमीवरचाउम्भासिएस अट्टाहियामत,नियमकर्तव्यता चीस्याटम
Jain Education Intel
For Private
Personal Use Only
fww.jainelibrary.org