________________
सम्यक्त्वाधि.
गा.१२
॥४५॥
नवपद बृह. मिन्द्राः-चतुस्त्रिंशदतिशयैश्वर्यवन्तस्तीर्थकरास्ते जिनवरेन्द्रास्तैः, एतच्च विशेष्यपदं जितरागद्वेषमोहैरिति च विशे। सम्यक्त्वै
स्वरूपं षण, अनेन च सम्यक्त्वलक्षणभणने हेतुः सूचितः, तथा चोक्तम्-" वीतरागा हि सर्वज्ञाः, मिथ्या न बवते
वचः । तस्मात्तेषां वचः सत्य, तथ्य भूतार्थदर्शनम् ॥१॥” इति, ' तं चेव त्ति तच्छब्दो यच्छब्दापेक्षया 'चः Kalपूरणे ' एवः ' अवधारणे स च भिन्नक्रमः ततस्तदेव 'भवति ' जायते 'तत्वं, परमार्थसत्, नान्यद्रागादिदो.. षोपहतकपिलादिप्रणीतं, रागादिदोषवत्ता च कपिलादीनामसद्भूतैकान्तनित्यादिभावदेशनागम्येति भावनीय, इति' एवविधा 'बुद्धिः । मतिः ' भवति । जायते 'सम्यक्त्वं । सम्यग्दर्शनमिति । ननु बुद्धिनीम मतिः, सा च । ज्ञानमेव, सम्यक्त्वं तु तत्व श्रद्धानं, यदाह वाचकः-' तत्त्वार्थश्रद्धान सम्यग्दर्शन ( तत्त्वा १.२) मिति, ततो | यज्ज्ञानं न तदर्शनमिति कथमेतत् ,अत्रोच्यते. बद्धिजन्या तत्त्वरुचिरपि बुद्धिशब्देन विवक्षिता कार्ये कारणोपचारात्, नच कार्यकारणभावोऽप्यनयोर्नास्तीति वाच्यं तथा च पूज्या:-'नाणमवायधिईओ दसणमिदं जहोग्गहेहाओ।तह तत्तरुई सम्म रोइज्जइ जेण तं नाणं॥१॥' अथवा सरससुन्दर आनन्दहेतुरयं मोदक इत्यादि गुणदार्शका मतिर्लोके रुचिः प्रतीता तद्विपरीता दोषग्राहिणी त्वरुचिः तथेहापिलोकरूढया रुचिरूपैव बद्धिर्विवक्षितेति न कश्चिदोष इति गाथार्थः॥ १२॥
॥
:५
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org