________________
Jain Education
पूज्यपादानो गच्छस्तावत् ' उपकेश' ( ओकेश ) इति स्वयमेव मशस्तौ प्रतिपादितवन्तः, श्रीमत्मपौत्रा अपि नवपद हट्ट तौ नवतत्त्ववृत्तौ च प्रकटयन्ति -
‘जलनिधिरिवाास्त गच्छः श्रीमानुकेशपुरनिस्सृतः,' तथा च पूज्यानां उकेशगच्छान्तर्गतता सिद्धैव, ये केचिदाधुनिकाः तं गच् तान् पूज्यांश्च पार्श्वनाथशासनान्तर्वर्त्तितया मन्वते तद् अलिकमिति एतावदेव न, किन्तु प्रकरणकारानभिनतमेव, यतः श्रीपूज्यैरेव अत्रैव ग्रन्थरत्ने -
“ वर्त्तमानतीर्थाधिपतिं वीरनाथं इत्यर्थः, " इति वचनेन स्वेषां वीरतीर्थान्तर्वर्तित्वं सूचितं न च कापि सूत्रे प्रकरणे वा श्रीपार्श्वप्रभोः शासनं सार्धद्विशवर्षेभ्योऽधिकं प्रवृत्तमित्युपलभ्यते, प्रस्तुतग्रन्थरत्नं च नैव श्रीपाइप शासनान्तर्गतश्रुतधारेण, किन्तु वर्त्तमानतीर्थान्तर्गतशास्त्राधारेणैव, अत एव च ६ पत्रे विस्तरार्थस्तु उत्तराध्ययनादवसेयः ७ विस्तरार्थस्तुआवश्यकविवरणादसेयः ९ वित्थरेण विवाहपन्नत्तीए एक्कारसमे सए ९ विस्तरार्थस्तु भगवत्याः ११ विस्तरेण भगवत्यां यथा प्रज्ञापनोपाने १६ विशेषस्तु ऋषभचरित्रादवसेयः १८ कथानकं ज्ञाताधर्म्मकथासु ५३ पद्मचरित्रे विस्तरः ६० कथानकं हरिवशकथायां ७ विस्तरो वसुदेवहिण्डयाम् । ४० गाथावित्ररणे विस्तरतो भगवत्यां ४९ कथानकं सविस्तरमुपाश रुदशाङ्गे, नावाच - म्मकहाओ, ५३ विस्तरेण उपदेशमालायां ५६, एभिः वाक्यैः स्पष्टमेव पूज्या वर्तमानतीर्थशास्त्राश्रिता इति ज्ञायते, किञ्च यदि पूज्याः पार्श्वनाथतीर्थ समाश्रिता अभविष्यन् तर्हि श्रीमन्महावीरवर्णने भगवान् चातुर्मासिकाभिग्रहेण इति (५१) गाथा कथानके तथा स्कन्दककथानके भगवत्समीपमागतः इति निर्विशेष्यं नैवाकथिष्यन् नैव च प्रत्यपाद विध्यन श्री पाच
For Private & Personal Use Only
ww.jainelibrary.org