________________
Jain Education Inf
1
मिति । हिंस्रप्रदानं नामायुधविपाग्न्यादि स्वतः परतो वा तत्र विषविपाकोदाहरणं - बहुभिश्चैरैिगेधिनं प्रभूतं परदेशे गत्वा गृहीतं; ततः स्वदेशं प्राप्ताः, ततः केचन ग्रामं मद्याय गतास्तैस्तत्रैव विषमद्धे प्रक्षिप्तं, ये तु तत्रैव स्थितास्तैस्तत्रैव मांसे अर्द्धरात्रे मधुरकं प्रक्षिप्तं, परस्परं मारणबुद्ध्या रात्रौ गोष्ठी कृता, अन्योऽन्यविषेण मृताः, येषां पुनः रात्रौ भोजननिवृत्तिरासीत् तेषां तत् सर्व गोधनं संजातमिति । अग्निदृष्टान्तः - श्रावस्त्यां नगर्यो जितशत्रुपुत्रः स्कन्दः कुमारः, पुरन्दरयशा च भगिनी, कुम्भकारकडम्मि डंडकिराज्ञा परिणीता, अरिमर्दनराज्ञः सभार्या स्कन्देन अन्यदा पालकनामा पुरोहितो नास्तिको जितः शत्रुभावमागतः कुमारोऽपि मुनिसुव्रतस्वामिपार्श्वे संजातवैराग्यो राजपुत्रपंचशतपरिवारः प्रव्रजितः यावद् गीतार्थः सन् आचार्यपदे स्थापितः, तेन तस्यैव शिष्या दत्ताः, अन्यदा स्वामी पृष्टः, प्रतिबोधयामि पुरन्दरजसादिवर्गम्, उक्तं मुनिसुव्रतस्वामिना - प्राणान्तिकोपसर्गस्तव तत्र, आचार्येणोक्तं- आराधका न वेति त्वां मुक्त्वा शेषा आराधकाः, ततो गतः, पालकेनापि तदागमनं श्रुत्वा साधुयोग्य उद्यानेऽनागतमेवायुधानि निक्षिप्तानि, विकाले प्राप्ताः, पुरन्दरजसा तदागमनेनानंदिता, प्रभाते पुरन्दरजसा समागता कंबल रत्नमाचार्याय दत्तं निषद्यापादपुंच्छनकानि कृतानि, राजकुले प्राप्तेन पालकेनेाक्तं- एष व्रतपराभग्नस्तव राज्यग्रहणार्थं पुरन्दरजसासंकेतित आगतो, निक्षिप्तायुधैः प्रतीतिरुत्पादिता, ततस्तस्यैवादेशा दत्तो यथा अस्य भ्रष्टाचारस्य यथोचितं कुरु, तेन च पापात्मना रात्रावेव पुरुषयंत्राणि नीत्वा पोलिताः, आचार्यस्तु सर्वेषां नमस्कारादिसमाधिमुत्पादयति, पर्यन्ते आचार्येण क्षुल्लकं त्यक्त्वा मां प्रथमं यंत्रे प्रक्षिपेत्युक्तं तेन स एव शुकः प्रक्षिप्तः, विस्तृत आत्मा, क्रुद्धः रे पापिन् ! एतदपि मद्वचो न कृतं, निदानं कृतं, अभिकुमारेषूत्पन्नः, ते च सर्वेऽप्यन्तकृत केवलिनः संजाताः, प्रभातसमये रजोहरणं सकुलिकया रुधिरदिग्धं हस्त
For Private & Personal Use Only
ww.jainelibrary.org