________________
श्री नवपद
प्रक०वृत्ती. ॐ
भोगोपभोग
॥३७॥
मनर्थदंड | विरतिश्च.
धम्मिदियभोयणट्ठा जं कजं तं तु होइ अढाए । विवरीयं तु अणद्वा तविरह गुणवयं तइयं ॥ ८३ ॥
धर्मार्थ-चैत्यगृहकरणादा इंद्रियार्थ भोजनताम्बूलादा भोजनार्थ कृषिवाणिज्यादा यत् 'कार्य' पापानुष्ठानं क्रियते तदर्थाय, यत् पुनस्त्रयाणामेकमपि न साधयति तदनय, तृणलताकर्तनकृकलासमारणादिवत् , अस्य अनर्थदण्डस्य या विरतिस्तद् गुणवतं तृतीयं स्वरूपेणेति गाथार्थः।
भेदद्वारमाहपावोबएसहिंसप्पयाण अवझाण गुरुपमायरियं । भेया अण त्थदंडस्स हुँति चउरो जिणक्खाया ॥ ८४ ॥
पापोदेशेन यथा कृष्यादि कुरु बलीवों दम्यतां वीवाहादि कुरु, हिंस्रपदानं नाम खड्गधनुःकुठारदात्रकुस्यग्न्यादिप्रदानं, अपध्यानाचरितं नाम आर्त्तरौद्रचिन्तानुरूपं यथा मम लक्ष्मीभवतु भोगादिकं सम्पद्यतां वैरिको वा म्रियतां शोभनं वा सम्पन्नं यदेष वैरिको मृत इति, प्रमादाचरितं नाम घृतगुडतैलादिदुःस्थगनादिकरणं मद्यातव्यसनादि च, भेदा अनर्थदण्डस्य भवंति चत्वारो 'जिनाख्याताः' सर्वज्ञपणीताः । एतेषु उदाहरणाान । तत्र पापोपदेशे उदाहरणम्____ अरिमर्दनराज्ञा तडागः कारापतः, तत्रोदकं न तिष्ठति, तेन चाने के उपाया कृताः, केनचित् न प्रतीकारः संजातः । अन्यदा एकः कश्चिन् नैमित्तिकः समायातः, स च राज्ञा पृष्टः-केनोपायेनोदकं स्थिरं भवति? तेनोक्तम्-ईदृशः पुरुषोऽस्मिन् स्थाने दीयतां यो ब्राह्मणः कपिलकेशो वक्रनाशः विषमदन्तः बृहत्कर्णश्च, राज्ञा नियुक्ता पुरुषाः, न कश्चित्तादृशो लब्धः पुरुषः, अपरेणोक्तम्-एष एवं नैमित्तिकः कपिलभिक्षुरेवंभूतः, ततो राज्ञा स एव तस्मिन् स्थाने निहतोऽतो हितं वाच्यम्, अहितं न वाच्य
॥३७॥
in Educh an intelle
For Private Personal Use Only
Jww.jainelibrary.org