SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ फललोष्टयवगोधूमस्थूलमण्डकाकंकुटकादि, तुच्छौषधीनां भक्षणं, तुच्छा-असारा औषधयः, एकाभिर्बहुभिभक्षिताभिरल्पा तृप्तिर्ययेशुवल्लादिफलीप्रभृतिभिः, सिगाखायगो उदाहरणं, एवंभूतं यदाहारजातमन्यदपि तद् वर्जयेत् , यद्वा अशनेऽनन्तकायसम्मिश्रं पाने मद्यादिपानं खादिमे संसक्तताम्बूलपत्रादि, अतिचाराश्च कस्यचित् केचन, विचित्रत्वाद् व्रतस्येति गाथार्थः ।। __भङ्गद्वारमाहदुविहं तिविहेण गुणव्वयं तु चित्तण देइ उवएसं । अहियं वा परिभुंजइ जाणतो तो भवे भंगो ॥ ८१॥ द्विविधं त्रिविधेन गुणवतं मद्यरात्रीभौजनादोनां गृहीत्वा य उपदेशं तद्विषयं विधते-अन्यस्मै ददाति. यथा मयं पिब, रात्री भोजनं कुरु, अधिकं वा प्रमाणातिरिक्तं जानन् गृहाति भुङ्क्ते व्रतातिचारनिरपेक्षः, तस्य भंगो भवतीति गाथार्थः ॥ ___ भावनाद्वारमाहमलमइलजुन्नवत्यो परिभोगविवजिओ जियाणगो । कइया परीसहच, अहियासंतो उ विहरिस्सं ॥२॥ मलेन मलिनं मलमलिनं 'जीर्ण' च पुरातनं च तत् 'वस्त्रं' वसनं मलमलिनवस्त्रः तथा स्यादिपरिभोगेन विजिता जितमन्मथः, तथा जितानंगः कामभोगरहितः 'कदा' कोस्मन् काले 'परिषहच' क्षुधादिपरीषहसेनां 'अध्यासयन्' सहन् वैक्लव्यमकुर्वन् 'विहरिष्ये' पर्यटिष्यामि ?, कदा मुसाधुक्रियायुक्तो गुरुभिः सह संयमानुष्ठानेन चयों करिष्यामीति भावनेति गाथार्थः ।। उक्तं नवमद्वारं, तत्प्रतिपादनादुपभोगपरिभोगाख्यं द्वितीयं गुणवतं । साम्पतमनर्थकदण्डाख्यं तृतीयं गुणवतं, तत्रापि प्रथमद्वारमाह Jain Education indi For Private Personal Use Only w.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy