SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीनवपद प्रक०वृत्ती. ॥२०॥ अणुव्रतेषु | अदत्तादान विरतिः GANGACANCICALCANORAMGANGABG तनाभिः कदर्थयित्वा दशविधपाणेभ्यः पृथक्कृतः । इत्यायनेके दोषा अदत्तादाने इति गाथार्थः । गुणद्वारं पंचममाहपरदवहरणविरया गुणवंता पडिमसंठिय सुसीला । इहपरलोए सुहकित्तिभायणं नागदत्तोब ॥४३॥ ___ 'परद्रव्यहरणविरताः ' परद्रव्यहरणात् निवृत्ताः ‘गुणवंतो' देशविरताः 'प्रतिमासंस्थिताः' दर्शन दिप्रतिमायुक्ताः 'सुशीलाः' शोभनशीलवंतः इहपरलोकयोः सुखं कीतिः पुण्यादिलक्षणा तयोर्भाजनं-तयोः स्थानं नागदत्तवणिगवदिति दृष्टान्त इति गाथासमासार्थः । भावार्थः कथानकगम्यस्तचेदं वाणारस्यां नगर्या जितशत्रो राज्ञोक्यस्यः धनदत्तनामा सार्थवाहः श्रावकः, तस्य धनश्रीः श्राविका भार्या, तयोः पुत्रो द्विसप्तातकलान्वितो नागदत्तनामा, बालभाव एव पित्रादिभिः साधुसमीपं नीत्वा सम्यग्दर्शनपूर्वकाण्यणुव्रतानि ग्राहितः, अन्यदा वयस्यपरिवृतेन उद्यानवनगतजिनभवनाविष्टा कन्यका ददृशे पत्रच्छेदं कुर्वाणा, तेन च सन्निहिताः पुरुषाः पृष्टाः-कस्येयं कन्यका जिनप्रतिमानां पूजनं करोति, तैश्च कथितं यथा अत्रैव प्रियमित्रसार्थवाइस्य नागश्रीभार्या, दुहिता नागवध नाम दारिका, विज्ञानगुणयुक्ता रतिरूपा तव योग्या, ततो नागदत्तेनोक्तं-न मया रागवशेन पृष्टं, मया पत्रच्छेदविज्ञानकुतुहलेन पृष्ट, अहं प्रवजितुकामः, सा च कन्या नागदत्तरूपे तीव मूछिता, सखीजनेन तदभिप्रायं ज्ञात्वा जनन्यास्तदभिप्रायः कथितः, तथापि प्रियमित्रसार्थवाहस्थ, तेन च धनदत्तसार्थवाहो याचितः, तेन चोत्तरं दत्तं-पृच्छामि नागदत्तं, ततः कथितः सर्वोऽपि वृत्तान्तः, इतश्च सा कन्यका गृहानिर्गच्छन्ती दृष्टा नगरारक्षिकवमुदत्तेन, साभिलाषश्च संजातो, द्रव्यमूल्येनापि तेन स्वयमेव याचिता, प्रियमित्रेण चोक्तं-दत्ता नागदत्तस्थ, सच छिद्रान्वेषी संजातो, मारयित्वापि नागदत्तं मया परिणेतव्या। अथान्यदा राज्ञोऽश्ववा ॥ २० ॥ Jain Education For Private & Personel Use Only X w .jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy