________________
श्री नवपद
प्रक०वृत्ती. ॥१८॥
अणुव्रतेषु | मृषावाद विरतिः अदत्तादान विरतिश्च
माप अदत्तादानं भेदतो, येन चारशब्दः लोके प्रवत्तते स 'विषयः' गोचरः श्रावकस्याणुव्रतविषयो ज्ञेयः-ज्ञातव्य इति गाथार्थः ॥ तृतीयद्वारमाहगुणहाणयंमि तह परिणयमि जीवस्स कुगइभीयस्स । वयगहपरिणामो चिय होइ दुढं तिवसस्स ॥४१॥
'गुणस्थानके ' देशविरतिलक्षणे 'तथा परिणते' सम्यक्त्वलाभात् पल्योपमानां भावतः पृथक्त्वभागस्थितिमात्र क्षपिते 'जीवस्थ' आत्मनः 'कुगतिभीतस्य' अविरतिमूलकम्बंधभीरोः 'व्रतग्रहणपरिणामः' अदत्तादानवतग्रहणाध्यवसायो 'भवति' जायते ' दृढम् ' अत्यर्थ 'तीव्रश्राद्धस्य' उत्कटनिजाध्यवसायस्येति गाथार्थः ।। दोपद्वारमाह-- जे पुण करंति विरइं अदिन्नदाणस्स नेह लोभिल्ला । ते मोडयविजया इव चोरा पावंति दुक्खाई॥४२॥
ये पुनः कुति 'विरतिं' निवृत्ति 'अदत्तादानस्य' चौयरूपस्य नेति वत्तते, इह लोके-मनुष्यलोके 'लोभिल्ला' चतुर्थकषायलोभवंतः ते पुरुषा मंडिकचौरवत् विजयचौरवद्वा प्रामुवंति 'दुःखानि' शूलारोपणोद्वन्धनाद्यनेकाकाराणीति गाथार्थः ॥ व्यासार्थः कथानकगम्यस्तचेदम्
उज्जयिन्यां नगर्या जितशत्रू राजा, अचलः सार्थवाहः, मूलदेवो धूर्तः द्यूतकारः, देवदत्ता गणिका, सच मूलदेवस्थानुरक्ता, अचलसार्थवाहोऽपि देवदत्तायामेवानुरक्तः, प्रभूतं द्रविणजातं प्रयच्छतीति वाइकाया (कुहिन्या) वल्लभः, अन्यदा देवदत्तायाः कुट्टिन्याश्च विवादः संजातः, देवदत्ताया मूलदेवो गुणवान् वाइकाया उदारवृत्तित्वादचलो गुणवान् , उक्तंच-"अपात्रे रमते नारी, धारा वपति माधवः । नीचमाश्रयते लक्ष्मीः, विद्वान् प्रायेण निद्धनः॥१॥" तया गुणागुणपरीक्षार्थ दासचेडी प्रेषिता इक्षुभक्षणेच्छा
SHORॐ
| ॥१८॥
Jain Education
For Private Personel Use Only
jainelibrary.org