________________
Jain Education In
निधनत्वं याति दृष्टान्तमाह-वसुराजवदिति गाथार्थः ॥ भावार्थः कथानकगम्यस्तच्चेदम्
पृथिवीमतिष्ठिते नगरे जितशत्रो राज्ञः पुत्रो वसुराजा, क्षीरकदंबोपाध्यायः, पुत्रः पर्वतकः, नारदश्चैते सहाध्यायिनः, अन्यदा क्षीरnisोपाध्यायः पंचत्वमुपगतः, वसुराजः राजा संवृत्तः, पर्वतकनारदयोश्च धर्मविचारे विवादः संजातोऽजैर्यष्टव्यमित्यत्र, पणच कृतो- जिद्दाछेदेन, पर्वतकेन छागा नारदेन त्रिवार्षिकाणि धान्यानि अजा इति क्षीरकबंधोपाध्यायेन व्याख्यातमित्युक्तं, तत्र वसुराजा प्रमाणीकृतः, ज्ञातं च तत् क्षीरकदम्बकपत्न्या पर्वकमात्रा, तयोक्तं मयापि श्रुतमासीदुपाध्यायवचनं त्रिवार्षिकाः धान्याः अजाः, तस्मादुत्थामि वसुराजानमप्यर्थयामि यथा मदीयपुत्रस्य जिद्दा छेदो न भवति तथाऽनृतमप्युक्त्वा कर्त्तव्यं, स च सत्यवादी किलेति लोकश्रुतिः, विष्टरं चाकाशे, तेन चोक्तं मयाऽनृतभाषणं न विधेयं ततः पुनः पुनः क्षीरकदम्बोपाध्यायपत्न्या प्रेर्यमाणेन प्रतिपन्नं तद्वचः, पर्वतनारदयोस्त्वागतकयोः राज्ञा छागविषयं प्रत्युत्तरं दत्तं, उपाध्यायव्याख्यानमेतत्, ततः आसनात् पतितो भुवि धिकधिकशब्दच लोके संजातः ऋषिर्नारदस्त लोके सत्यवादीति यशः प्राप्त इति, एवमादयोऽनेके दोषाः । साम्प्रतं पंचमं गुणद्वारमाह
जे उस जंपति निउणयं सङ्घसत्तहियजणगं । ते इह पुजा रिसिनारउव सुगई पुणो जति ॥ ३४ ॥
ये प्राणिनः ' मृदु ' अकठोरं सत्यं' जनपदादिसत्यं ' जल्पंति' भाषेते ' निपुणं' षोडशविधवचनयुक्तं, 'सर्वसत्वहितजनकं ' सर्वप्राणिसुखमापकं ते प्राणिन इह ' पूज्या ' अर्चनीयाः ऋषिनारदवत् ' सुगतिं ' स्वर्गादिकमाप्तिलक्षणां पुनर्गच्छन्तीति । ऋषिनारदकथानकं दोषाधिकारे उक्तमेव || अधुना षष्ठं यतनाद्वारमाह
For Private & Personal Use Only
4
jainelibrary.org