SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ अन्भूयं उम्भावइ भूयं निन्हवइ तह य विवरीयं । गरिहा सावजं वा अलियं एमाइविसयं तु ॥३०॥ ___अभूतोद्भावनं नाम यथा श्यामाकतन्दुलमात्र आत्मा, ललाटदेशस्थः हृदयस्थः सर्वलोकव्यापी वा, अथवा एक आत्मा जलचन्द्रवदनेकधा दृश्यते इत्यादि, भूतनिन्हवो नास्त्यात्मा नास्ति परलोकयायो आत्मा, तथा विपरीतं गामश्वं ब्रुवतः, यद्वाअनित्य आत्मा बौद्धमतात् नित्यो वा सांख्याभिप्रायेण, गर्दावचनं काणः कुब्जः दास इत्यादि, 'सावा' सपापं वा, यथा दम्यतां गोरथकाः, अन्यद्वा यत् सपापं, उक्तं च-" यद्भावदोषवद्वाच्छ, तत्त्वादन्यत्र वर्तते । सावधं वापि यद्वाच्य, तत् सर्वमनृतं विदुः॥१॥" तथा येन आत्मनः परस्य अतीवोपघातोऽतिसंक्लेशो वा तत् सर्वमनृतम्, एवमाद्यनृतस्वरूपमिति गाथार्थः ॥ भेदद्वारं द्वितीयमाहकनागोभूमालियनासवहारं च कूडसक्खिजं । भेवा उ तस्स पंच उ हवंति एए जिणुद्दिट्ठा ॥३१॥ तत्र कन्यानृतं नाम-कन्याविषयमलीकवचनं, यथा भिन्नकन्यां अभिन्न कन्यां अभिन्नकन्यां वा भित्रकन्यां ऋतौ विपरीतां वा, उपलक्षगं कुमारादेः, गवानृतं नामालपक्षीरां बहुक्षीरां विपरीतं वा, महिषायुपलक्षगं, भूम्यनृतं नाम परकीयामात्मसत्कामात्मसकांवा परकीयां वक्ति, न्यासकापलापनं नाम यथा पुरोहितेन द्रममसम्बन्धी दीनारनकुलो गृहीत्वा अपलप्तः, पुनः राज्ञा नामांकितमुद्रादापनेन पुत्रादानायितः समर्पितव, कुटसाक्षित्वं नाम यथा कश्चिदर्थलोमेन व्यवहारे नियुक्तः कूटसाक्षित्वं प्रयच्छत्येवमेतदिति भेदाच मृपावाद त्य पंचैव भवन्ति 'एते' अनन्तरपतिपादिताः 'जिनोद्दिष्टाः' जिनकथिता इति गाथार्थः ॥ 'यथा जायते' यथा व्रतग्रहणं भवति द्विविधत्रिविधादिना प्रकारेण तथा प्रकारं तृतीयद्वारेणाह-- दुगतिगदुगदुगदुगएकगेण एगेण होइ तिविहं तु। इगदुगइगर केग वयाण एसेव गहणविही ॥३२॥ Jain Education For Private Personel Use Only O w.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy