SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीनवपद् प्रक०वृत्तौ. | अणुव्रतेषु माणातिपात विरतिः ॥१५॥ 'वधः' लकुटादिघातः 'बन्धः' रज्ज्वादिना संयमनं 'छविच्छेदः कर्णकर्त्तनादिभिः 'अतिभारारोपण' बलीवादिषु पूगीफलायतिरिक्तभारचटापनं निरोधः भक्तपानविषयः यत् क्षुधायातः कदाचिन् म्रियते, एते त्वतिचाराः क्रोधादिदूषितस्य भवंति, गुणार्थ तु द्विपदचतुष्पदादीनां च बन्धनादि कुर्वतोऽतिचारा न भवंतीति गाथार्थः, विस्तरार्थोऽणुव्रतविधाविति । अष्टमं द्वारं भंगरूपमाहबंधाईणि उ आउट्टियाइणा जइ करेज तो भंगो । बीयकसयाणुदए तिहाणं होइ सङ्घस्स ॥ २८॥ वधबन्धादीन्याकुट्टिकया निरपेक्षो यदा कुर्यात्तदा 'भंगः' चतुर्थस्थानवारंभरूपः प्राणातिपातव्रतस्पैवं जायत इति, द्वितीयकषायाणाम् ' अप्रत्याख्यानावरणानामुदयेन-अनुभवेन तीव्राणाम् उत्कटानां भंगरूपाणामित्यर्थः भवति श्राद्धस्य जायते श्रावकस्य देशविरतस्येति गाथार्थः । अधुना चरमं भावनाद्वारमाहपणमामि अहं निचं आरंभविवज्जियाण विमलोणं । सबजगजीवरक्खणसमुज्जयाणं मुणिगणाणं ॥ २९ ॥ | 'प्रणमाम्यहं' नमस्करोम्यहं 'नित्यं सदा 'पृथिव्याद्यारम्भविवर्जितानां' पृथिव्यायारंभपरित्यागिनां 'विमलानाम् ' अन्तः क्रोधाद्यभावतः, रक्षणे मलरहितानामित्यर्थः, सर्वे ये जगति-लोके जीवाः-सूक्ष्मबादरादिभेदभिन्नास्तेपां भावतः रक्षणे-पालने समुद्यतानाम्-उयुक्तानां 'मुनिगणानां' साधुसंहतीनामित्येवं प्रथमत्रतभावना त्रिकालं भावनीयेति गाथार्थः ॥ उक्तं नवभेदं प्राणातिपातविरतिरूपमणुव्रतं प्रथम, साम्प्रतं द्वितीयं मृषावादविरत्याख्यमारभ्यते, तत्रापि प्रथमं द्वारमाह Jain Education Heal For Private & Personel Use Only A w w.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy