________________
श्री नवपद प्रकरणे.
॥ १२ ॥
Jain Education Inte
पुनञ्चतुर्भिः क्रोधादिभिर्गुणिता अष्टोत्तरं शतं भेदानामिति गाथार्थः । अधुना भेदद्वारमाह
दुविहो थूलो सुमो संकप्पारंभजो य सो दुविहो । सवराहि निरवराहो साविक्खो तहय निरविक्खो ॥ २२॥ स च प्राणातिपातः द्विविधः-स्थूलः सूक्ष्मथ, स्थूला द्वीन्द्रियादयः, सूक्ष्मास्त्वे केन्द्रिया गृह्यन्ते, नतु सूक्ष्मनामकर्मोदयत्तनः, तेषां व्यापादनाभावात् स्वयमायुष्कक्षयेण मरणात् तथा स्थूलः प्राणातिपातोऽपि द्विविध:- संकल्पजः आरंभजथ, संकल्पात्–मनःसंकल्परूपाज्जातः संकल्पजो, मारयाम्येनं कुलिङ्गिनं, आरंभजस्तु कृषिकरणरंधनाद्यारंभमवृत्तस्य द्वीन्द्रियादिव्यापादनं, न तस्मान्निवृत्तिः । संकल्पजो पि द्विविधः - सापराधो निरपराधयेति, निरपराधान्निवृत्तिः, सापराधे तु गुरुलध्वालोचनं, सापेक्षः निरपेक्षः, क्रियायां सर्वत्र सापेक्षेण भवितव्यमिति गाथार्थः ॥ तृतीयद्वारमाह
सम्म पत्ते बीयकसायाण उवसमखएणं । तविरईपरिणामो एवं सवाणवि वयाणं ॥ २३ ॥
सम्यक्त्वेऽपि सम्यग्दर्शनेऽपि 'प्राप्ते' लब्धे 'द्वितीयकषायाणां ' अपत्याख्यानाभिधेयानामुपशमक्षयेण क्षयोपशमेनेत्यर्थः, ' तद्विरतिपरिणामः प्राणातिपातविरतिपरिणामो जायते, एवं शेषाणामपि मृषावादादित्रतानां प्राप्तिः द्वितीयकषायाणां क्षयोपशमेनैव जायत इति गाथार्थः । चतुर्थ द्वारमाह
पाणाइवायअनियत्तणंमि इहलोयपरभवे दोसा । पइमारिया य एत्थं जत्तादमओ यदिता ॥ २४ ॥ माणातिपातानिवृत्तानामिहलोकपरलोकयोर्दोषा भवंति, पतिमारिका चात्र यात्राद्रमकश्च दृष्टान्त इति गाथार्थः ॥ भावार्थः कथानकगम्यः, तच्चेदम्—
For Private & Personal Use Only
स्वरूप भेदोत्पत्ति दोषाः
॥ १२ ॥
jainelibrary.org