________________
Jain Education I
यथा अवश्यं मया सह गमनं कुबैति, सर्वकार्यैरहं भलिष्यामि, गत्वा कथितमाचार्याणां चलिताः सार्द्धं, अटव्यां वर्षाकालेन विधृतास्तैश्च पूर्वानीतं धान्यादि भक्षितं, पश्चात् कन्दमूलादिभक्षणे प्रवृत्ता लोकाः साधवश्च गुहायां स्थिताः स्वाध्यायादि कुर्वन्तः तिष्ठन्ति स्म, सार्थवाहस्य चिंता संजाता को मम साथै दु स्थित इति, पर्यालोचयता ज्ञातं - साधवो, यतः पुष्पादिफलभक्षणं न कुर्वति ते, प्रभाते रसवतोपालकं पृष्टवान् किं साधवोऽत्रागच्छंति ? तेन-उक्तं कतिचिद्दिनानि वर्त्तन्ते आगतानां, स चात्मानं प्रमादिनं निन्दितुमारब्धो - हा ! मया मन्दभाग्येन साधूनां न तृप्तिः कृतेति पूर्व प्रतिपद्य, ततो दिग्विभागं पृष्ट्वा रसवतीपालकदर्शितमार्गेण गतः साधुसमीपं सार्थवाहो लज्जितः स्ववेष्टितेन, पश्चाद् घृतेन निमंत्रितवान्, आचार्येण तदाग्रहं ज्ञात्वा यदेषणीयं प्रासुकं तद् ग्रहीतव्यं इति भणित्वा प्रेषिताः साधवः, तेन च पात्रदानेन सम्यक्त्वबीजलाभो निर्वर्त्तितः उत्तरकुर्वादिभोगाश्च ततस्त्रयोदशभवे मोक्षसुखप्राप्तिः, एवमस्य सुमानुषसुदेवखादिक्रमेण शिवसुखाप्तिः संजाता, विशेषस्तु नृपभचरितादवसेय इति । “सम्यक्त्वमेकं मनुजस्य यस्य, हृदि स्थितं मेरुरिवाप्रकम्प्यम् । शंकादिदोषामहृतं नरेन्द्र !, न तस्य तिङ्नरके भयं स्यात् ॥ १ ॥ " अधुना यतनारूपं षष्ठं द्वारमाह
लोहयतित्थे उण ण्हाणदाणपेसवणपिंडणणाई | संकंतुवरागाइसु लोइयतवकर्णमिच्चाइ ॥ १७ ॥
लौकिकतीर्थे पुनः - गंगादौ स्नानं दानं धिग्जात्यादेः, प्रेषणं अस्थ्यादेः तीर्थस्थाने, पिण्डदानं मृतस्य पित्रादेः, हृणणं हवनं वह्नौ घृतादिप्रक्षेपः, आदिशब्दात् सारकादिपरिग्रहः, 'संक्रान्त्युपरागादिषु ' उपरागः - सूर्यग्रहणादिरूपः लौकिकतपः वच्छवारसि अनशिपकं आदिशब्दात् 'पडिवन्नदंसणस्स य न वंदिउं पणमिउं च कप्पंति । अन्नाई चेइयाई परतित्थि
For Private & Personal Use Only
jainelibrary.org