________________
श्रीनवपद प्रकरणे.
॥ ३ ॥
Jain Education In
_ कम्पन राजगृहं प्रति प्रस्थितः, सार्थेन सार्द्धमुञ्चलितः प्रयाणकमेकं, भोजनवेलायां भिक्षामदिला भुक्तवान्, अनुचिताहारत्वादजीर्ण संजातं, द्वितीयदिने शरीरापाटवं ज्ञात्वा वृक्षाधोब्यवस्थित एव तूष्णींभावेन स्थितः, स च लोकेन भोजनवेलायां स्मृतः कथितश्च यथा वृक्षाधस्तिष्ठत्युपोषित इत्ये कान्तरितभोजन कारीति पारण क दिने लहु काद्यतिभक्त्या दत्तं, ततः स्निग्धमधुराहारादिभोजनात् पष्टेन जीर्णे तद्भोजनं, ततश्च लोकोऽतिभक्त्या दातुमारब्धः, तस्य च सैवावष्टम्भबुद्धिः संजाता, सार्थवाहेन रक्तकर्पटपादुकादि दत्तं अन्येन मृत्यादि दत्तमेवं च व्रती संजातः, राजगृहप्राप्तौ लोकोऽपि बहुमानेन निमंत्रयति भोजनं च न करोति यावन भुंक्ते इन्द्रनागर्षिः, भेरिनिरूपणा च कृता लोकैः (मुक्त) इन्द्रनाग इति ज्ञापनार्थ, तेन च कालेन भगवान् ग्रामानुग्रामादिक्रमेण विहरन् गुणशील चैत्ये समवसृतः, पौरुष्युत्तरकालं भगवता गौतमस्वामी भिक्षार्थ निर्गच्छन् विधृतः, अनेषणा विद्यते साम्प्रतं, ततः पुनरपि क्षणमात्रे प्रेषितः, उक्तथ यथा तत्र सम्मुखमिन्द्रनागनामा परिवाजकऋषिः लोकपरिवारित आगमिष्यति, स च त्वया वक्तव्यो तथा बहुपिंड (क एकपिण्ड ) को व्याहरति, तथेति कृत्वा गतोऽसौ दृष्ट्वा च तं तथैवालसवान्, तेन च गौतमः पृष्टःकथमहं बहुपिण्डिकः ?, भगवान् मम गुरुर्जानाति, सच तच्छ्रवणानन्तरं लघुकर्म्मत्वादनभिनिवेशाच्च भगवत्समीपं गतो, भगवा चाहारपानादिकमारंभ दोषजातं सविस्तरं समस्तं कथितं साधूनां निरवयवृत्तिकं परिहारिकादिगुणरूपं कथितं स च पूर्वानुभूतकियानुष्ठानत्वात् जातजातिस्मरणः प्रत्येकबुद्धः संजातः इन्द्रनागाध्ययनं च प्ररूप्य आयुष्कक्षयेण सिद्धमेति संक्षेपार्थः । विस्तरार्थस्त्वावश्यक विवरणादवसेय इति । षष्ठं द्वारमधुना यतनालक्षणमाह
जया लहुया गरुई अम्मडसीसेहऽदत्तभीएहिं । मरणभुवगमकरणं बंभे कप्पे समुत्पन्ना ॥ ८ ॥
For Private & Personal Use Only
HORON
गुणो यतमा
॥ ३ ॥
w.jainelibrary.org