________________
अधुना द्वितीयकथानकम्
क्षितिप्रतिष्ठितनगरे त्रिविक्रमाभिधानो भट्टः, स चान्यदा महातडाग कारितवान् , जलभृततडागे च छगलकयागं उपयाचितकं दत्तवान् , वर्षे वर्ष प्रति त्रिविक्रमाभिधानभट्टः, अथार्त्तध्यानपरस्तस्मिँस्तडागे मूछितोऽध्युपपन्नो मृत्वा छगलकः संवृत्तः, ततस्तत्पुत्रैः स एव छगलका यागाथै गृहीतो, गृहे आनीतः, तस्य च गृहपरिच्छदं पुत्रादिकुटुंबं च दृष्ट्वा मयैतद् दृष्टपूर्वमितीहापोहमार्गणादिकं पर्यालोचयतो जातिस्मरणं समुत्पन्नं, स चान्यदोदकभृततडागे नीयमानः शब्दं करोति, तं च शब्दायमानं अवधिज्ञानी दृष्ट्वा उक्तवान्-" सयमेव य लुक्ख लोविया अप्पणियाविय खड्डु खाणिया । सयमेवोवाइलद्धये किं छगला ! बेब्बे त्ति भाससे? ॥ १॥" इत्यादि, स च तत् श्रुत्वा तूष्णींभावमुपगतः, ततस्तेषां कुतूहलमुत्पन्न, पृष्टोऽवधिज्ञानी, तेन च संसारविलसितं पूर्वभवादिकं सप्रत्ययं कथित, सच हस्तान्मुक्तः गृहं गतो निधानं दर्शितवान् , प्रतीतिरुत्पन्ना अस्माकं पितेति संक्षेपार्थः॥ मिथ्याखस्य ह्यदये जीवो विपरीतदर्शनो भवति, न च तस्मै सद्धर्मः स्वदते, पित्तोदये घृतवत् । विस्तरार्थस्तूत्तराध्ययनादवसेय इति ॥ गुणद्वारमधुनामिच्छत्तस्स गुणोऽयं अणभिनिवेसेण लहइ सम्मत्तं । जह इंदनागमुणिणा गोयमपडियोहिएणति ॥७॥
मिथ्यात्वस्य-अतत्त्वाभिनिवेशरूपस्य गुणः अनभिनिवेशाद्-अनाग्रहात् लभते-माप्नोति सम्यक्त्वं-सम्यग्दर्शनमईच्छासनमार्ग, दृशन्तमाह-यथा इन्दनागमुनिना लौकिकेन गौतमप्रतियोधितेन श्रीमन्महावीरवर्द्धमानस्वामिप्रथमगणधरपतिबोधितेन, लब्धमिति शेषः ॥ विस्तरार्थः कथानकगम्यः, तवेदम्
-$*06*USHUGHULISHOISIS
Jain Education Intel
For Private
Personel Use Only
K
ainelibrary.org