SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Jain Education मुत्कलचारिणो मुनयः ये त्वारंभपरिग्रहनित्तास्ते त्वसाधव इत्येतदपि मिथ्यात्वं, तथा जीवादयः पदार्थास्तत्त्वरूपा अतत्त्वानि वैशेषिकसांरूपादिप्रणीतानि तु तत्त्वानि, एकनयावलम्बनग्रहात्मकं मिथ्यात्वमिति, दर्शितं समये - सर्वज्ञागने, कथितं मिथ्यात्वमिति गाथार्थः ॥ ३ ॥ भेदद्वारं अधुना अभिग्गहियमणाभिगहियं तह अभिनिवेसियं चैव । संसइयमणाभोगं मिच्छतं पंचहा होइ ॥ ४ ॥ मिथ्यात्वं सामान्येन द्विविधं - आभोग मिथ्यात्वं अनाभोगमिध्यात्वं च, आभोगमिथ्यात्वं सदेवानां, अनाभोग मिध्यात्वमदेवानां विशेषतस्तु पंचप्रकारमेतद्द्वाथोक्तं, तत्राभिग्रहिकं मिथ्याचं साम्रयवैशेषिकबौद्धादिदीक्षायुक्तानाम्, अनभिगृहीतं दीक्षारहितानामाभीरादीनां, अभिनिवेशाज्जातं आभिनिवेशिकं गोष्ठामाहिलादीनामिव, सांशधिकं जीवादिपदार्थगहनसंशयाद्यद्भवति तत् सांशयिक, अनाभोगाद्-अज्ञानरूपाच्छून्यमनस्कत्वाद्वा यद्भवति तदनाभोगमिध्यात्वम् अनेन प्रकारेण पंचधा भवति मिध्यात्वमथवाऽनेकविधं नयमतावलम्बनेन, उक्तंच - " जावइया वयणपहा तावइया चेव होंति नयवाया । जानइया नवाया तावइया चैव परसमया ॥ १ ॥ " इति गाथार्थः । तृतीयं द्वारमाह महभेया पुच्वग्गह संसग्गीए य अभिनिवेसेणं । चउहा खलु मिच्छत्तं साहूण अदंसणेण हवा ॥ ५ ॥ • मतभेदात् मिथ्यात्वं याति जमालिवत्, पूर्वव्युद्ग्रहात् मिध्यात्वं गोविंदवाचकादेखि, मिथ्यादृष्टिसंसर्गात मिथ्यात्वं भवति सुराश्रावकस्य भिक्षुभिः सह उज्जयिनीगमनवत्, अभिनिवेशाच्च मिथ्यात्वं रोहगुप्तवत्, चतुर्द्धा खलु मिध्यात्वगमनं साधूनामदर्शनेनाथवा- साधूनामदर्शनेन चेति गाथार्थः ॥ ५ ॥ चतुर्थद्वारमधुना For Private & Personal Use Only jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy