________________
श्रीनवपद प्रक०वृत्ती.
पौषधोप
॥४७॥
सर्वैः प्रकारैः 'त्यक्त' परित्यक्तमिति गाथार्थः। उक्तं द्वितीय शिक्षात्रत, साम्प्रतं तृतीयपौषधवत नवभेदमाह, तत्रापि प्रथमद्वारमाहपोसहउववासो पुण आहाराई नियत्तणं जं च । कायवा सेा नियमा अहमिमाईसु पव्वेसु ॥ १११ ॥
तत्र पौषधः प्रथमदिवसे पुष्टिकरणं तत्रोपवसनं पौषधोपवासः, तत्राहारादीनां चतुगां प्रकाराणां अन्यतमनिवर्तनं यच्च स च कर्तव्यः पौषधोपवासः अष्टम्यादिपर्वदिवसेषु, उक्तंच-" पोसहउववासा उण अमिचाउद्दसीम मि दिणे । नाणे नेवाणे चउम्मासे अट्टाहि पन्जुसणे ॥१॥” इति गाथार्थः॥ भंगद्वारमाहआहारदेहसकारखंभवावारपोसहो चउहा । एकेकोऽविय दुविहो देसे सम्वे य नायवो ॥११२ ॥
"आहारे' त्ति आहारपौषधो देशतः सर्वतश्च, देशत एकप्रतादि, सतः चतुर्य, 'देह समात्ति शरीरसत्कारपोषधः देशतः सर्वतः, देशतः स्नानाभ्यङ्गनादि, सर्वतस्तु सर्वस्यैव शरीरसत्कारस्य रागबुदया, 'वंभे ति ब्रह्मचर्यपौषधः देशतः सर्वतश्च देशतः प्रहरादिमानेन (सर्वतोऽहोरात्रान्तं, अव्यापारे देशतः) एकस्य कस्यचित् विवक्षितव्यवहारस्य वा, सर्वतः सर्वस्य सावधगृहव्यापारस्याहोरात्रं, उक्तं च-"सावज्जजोगविरओ झाणज्झयणम्मि निचलो धणियं । जिगभवणगो चिटुइ अब्बावारम्मि पोसहिओ | ॥१॥ चेइयसाहअभावे भिन्ना भणिया घरस्स एगंते । एगस्स समिद्धस्स य पोसहसाला इमा भणिया ॥२॥ चंदवडेंसय संखो
सुदंसणो कामदेव अभओ य । एगागिणो य एए पोसहसालासु कुव्यंति ॥३॥" आवश्यकचूां, तथा 'न हु होइ सावगस्स य पोसहपडिमस्स (किंपि) सावजं । गाहा जेग जिगकप्पियस्स गाहा, इत्यायागमगाम्भीर्य आगमज्ञैरेव ज्ञायते, तव न लिख्यते, अल्पज्ञानानामतिमोहहेतुत्वात् मिथ्यात्वकारणत्वाद्विमतिपत्तेश्चेति गाथार्थः। तृतीयद्वारमाह
॥४७॥
Jain Education in
For Private & Personel Use Only
Mainelibrary.org