________________
ARRIGARKORESCRACREASRIGANGANA
|'भक्त्या' बहुमानपुरःसरं 'क्रमकमलं' पादपङ्कजमिति गाथार्थः ॥ उक्तं सामायिक, नवभेदं देशावकाशिकमाह, तत्रापि प्रथमद्वारमाहदेसावकासियं पुण संखेवा जत्थ पुबगहियस्स । जह वसपन्नगदिट्ठो संखिवई वाइओ कोई ॥ १०१ ॥
'देशावकाशिकं पुनः' देशे अवकशनं संक्षेपेऽवस्थापनं व्रतानां पूर्वगृहीतानां चतुर्मासादिकालावधिना यथा दृष्टिविषपन्नगस्य विषं 'संक्षिपति वातिकः' स्तोकं करोति 'गारुडिकः' स्थावरजङ्गमनिर्विषीकरणवेत्ता कश्चित्तथाविध इति गाथार्थः ॥ भेदद्वारमाहसंवच्छराइगहियं पभायसमए पुणोऽवि संखिवइ । राओ तंपि य नियमइ भेएण विसिट्टतरमेव ॥ १०२ ।।
'संवत्सरादिगृहीतं' पर्युषणादिगृहीतमादिशब्दाचतुर्मासादिगृहीत, प्रभातसमये धर्मजागरिकायां पुनरपि संक्षिपतिस्तोकस्तोकदिवसयोग्यं व्रतं गृह्णाति दिकपरिमाणादि, रात्रौ तदपि संक्षिपति व्यवहारादिक, 'भेदेन पृथिव्यादिग्रहणविकल्पेन विशिष्टतरमेवेति गाथार्थः । यथा जायते तृतीयद्वारमाह-- एगविहं तिविहेणं सव्ववयागं करेइ संखेवं । अहवा जहासमाही गंठीनवकारपरिमाणं ॥ १०३॥
'एकविधं त्रिविधेन' मनसा वाचा कायेन न करोमि स्वयमित्यादिना प्रकारेण सर्वव्रतानां करोति संक्षेप, अथवा ' यथासमाधि' समाध्यनतिक्रमेण, वित्तविद्यापात्रतायनुसारेण शक्त्यनुलनेन ग्रन्थिनमस्कारपरिमाणादिना कालमानेनेति गाथार्थः॥ दोषद्वारमाह
Jain Education in
For Private & Personel Use Only
N.jainelibrary.org