________________
प्रतिलेखना द्वारम्
श्रीपञ्चव. प्रतिदिन क्रिया २ ॥३८॥
SARASWARA
उवगरण वत्थपत्ते वत्थे पडिलेहणं तु वुच्छामि । पुरवण्हे अवरण्हे मुहपत्तिअमाइपडिलेहा ॥२३२॥ | उपकरणमधिकृत्य प्रत्युपेक्षणा वस्त्रपात्रे-वस्त्रपात्रविषया, तत्र प्रव्रज्याग्रहणकाले प्रथममेव यथाजातरजोहरणादिभावात 'वस्त्रैषणा पात्रैषणे'ति च सूत्रक्रमप्रामाण्याद्वस्त्रविषयां प्रत्युपेक्षणां-विशिष्टक्रियारूपां तावद्वक्ष्ये, तत्क्रममाह-पूर्वाह्ने-प्रत्यू. षसि अपराहे-चरमपौरुष्यां मुखवस्त्रिकाद्या-मुखवस्त्रिकामादौ कृत्वा प्रत्युपेक्षणा प्रवर्तत इति गाथार्थः ॥ ३२ ॥ अत्र च वृद्धसम्प्रदायः-काए आणुपुवीए वत्था पडिलेहेअवा ?, मुहपोत्ती पुव्वं ताहे कायं रयहरणं चोलपट्टयं ताहे गुरुस्स उवट्ठाइ, ताहे गिलाणस्स सेहस्स, ताहे अप्पणोच्चए कप्पे विंटिया, ताहे उत्तरपट्टयं संथारपट्टयं, जं च गुरुनिउत्तंति, तत्पुनरनेन विधिना वस्त्रं प्रत्युपेक्षितव्यमित्येतदाह
उडे थिरं अतुरिअं सत्वं ता वत्थ पुवपडिलेहा ।
तो बीअं पप्फोडे तइअं च पुणो पमजिज्जा ॥२३३॥ पडिदारगाहा ॥ ऊर्ध्व वस्त्रोर्ध्वकायोर्खापेक्षया सम्यक् स्थिरं घनग्रहणेन अत्वरितम्-अद्भुतं वक्ष्यमाणलक्षणेन विधिना सर्व तावद्वस्त्रम् आरतः परतश्च पूर्व-प्रथमं प्रत्युपेक्षेत-चक्षुषा निरीक्षेत, ततः-तदनन्तरं द्वितीयमिदं कुर्यात् , यदुत परिशुद्धं सत् प्रस्फोटयेत् वक्ष्यमाणेन विधिना, तृतीयं च पुनरिदं कुर्यात् यदुत प्रमार्जयेत् वक्ष्यमाणेनैव विधिनेति गाथासमुदायार्थः॥३३॥ व्यासार्थ त्वाह
in Education
For Private Personal use only
S
w.jainelibrary.org