________________
SASASARAS
प्रव्रजितको यतो-यस्मादिह-लोके शासने वा प्रतिदिनक्रियां-चक्रवालसामाचारी करोति यो नियमादप्रमादेन-सम्यक् । | सूत्रोक्तेन विधिनोपयोगपूर्वकं सफला तस्यैव-इत्थंभूतस्य प्रव्रज्या, नान्यस्येति, अतः प्रव्रज्याविधानानन्तरं प्रतिदिनक्रियेति गाथार्थः॥ २९॥ सा चेयम्
पडिलेहणा १ पमजण २ भिक्खि ३ रिआ ४ऽऽलोअ ५ भुंजणा ६ चेव ।।
पत्तगधुवण ७ विआरा ८ थंडिल ९ मावस्सगाईआ १०॥ २३० ॥ मूलदारगाहा ॥ | प्रत्युपेक्षणा उपधेः प्रमार्जनं वसतेः भिक्षा-विधिना पिण्डानयनम् ईर्या-तत्सूत्रोच्चारणपुरस्सरं कायोत्सर्गः आलोचनं| पिण्डादिनिवेदनं भोजनं चैवेति प्रतीतं पात्रकधावनम्-अलाब्वादिप्रक्षालनं विचारो-बहिर्भूमेर्गमनं स्थण्डिलं-परानुपरोधी प्रासुको भूभागः आवश्यकं-प्रतिक्रमणम् , आदिशब्दात् कालग्रहणादिपरिग्रह इति द्वितीयवस्तुद्वारगाथासमुदायार्थः ॥ ३० ॥ अवयवार्थं तु वक्ष्यति, तथा चाद्यद्वारावयवार्थाभिधित्सयाऽऽह| उवगरणगोअरा पुण इत्थं पडिलेहणा मुणेअवा। अप्पडिलेहिअ दोसा विण्णेया पाणिघायाई ॥२३१॥
संयमप्रवृत्तस्योपकरोतीत्युपकरणं-वस्त्रादि तद्गोचरा-तद्विषया पुनरत्र-प्रक्रमे प्रत्युपेक्षणा-वक्ष्यमाणलक्षणा मुणि|तव्या-मन्तव्या, ज्ञातव्येत्यर्थः, अप्रत्युपेक्षित उपकरणे दोषा विज्ञेयाः, के ? इत्याह-प्राणिघातादयः, आदिशब्दात्परितापनादिपरिग्रह इति गाथार्थः॥३१॥ तत्र
Jain Educational
For Private & Personel Use Only
TODainelibrary.org