________________
चारित्तविहीणस्स अभिसंगपरस्स कलुसभावस्स । अण्णाणिणो अ जा पुण सा पडिसिद्धा जिणवरेहिं २१७
चारित्रविहीनस्य - द्रव्यप्रत्रजितस्याभिष्वङ्गपरस्य भिक्षादावेव कलुषभावस्य द्वेषात्मकस्याज्ञानिनश्च - मूर्खस्य या भिक्षाटनादिचेष्टा सा प्रतिकुष्टा जिनवरैः, प्रत्युत बन्धनिबन्धनमसाविति गाधार्थः ॥ १७ ॥ तथा च -
भिक्खं अडंति आरंभसंगया अपरिसुद्धपरिणामा । दीणा संसारफलं पावाओ जुत्तमेअं तु ॥२१८॥ भिक्षामन्ति उदरभरणार्थमारम्भसङ्गताः तथा षड्जीवनिकायोपमर्द्दनप्रवृत्त्या अपरिशुद्धपरिणामाः-उक्तानुष्ठानगम्यमहामोहादिरञ्जिताः दीनाः - अल्पसत्त्वाः संसारफलां भिक्षां, न तु सुयतिवद्दातृग्रहीत्रोरपवर्गफलां, पापाद् युक्तमेतदिति, एतदित्थंभूतमकुशलानुबन्धिनां पापेन भवतीति न्याय्यमेतदिति गाथार्थः ॥ १८ ॥ कस्य पुनः कर्म्मणः फलमिदमित्याह - ईसिं काऊण सुहं निवा डिआ जेहिं दुक्खगहणंमि । मायाऍ केइ पाणी तेसिं एआरिसं होइ ॥ २१९ ॥ ईषत्कृत्वा सुखं - गलप्रत्रजिताविधिपरिपालनादिना निपातिता यैर्दुःखगहने - दुःखसङ्कटे मायया केचित् प्राणिन ऋजवस्तेषां सत्त्वानामीदृशं भवति - ईदृक्फलदायि पापं भवतीति गाथार्थः ॥ १९ ॥ तथा च
चईऊण घरावासं तस्स फलं चेव मोहपरतंता । ण गिही ण य पवइआ संसारपयड्डगा भणिआ ॥ २२० ॥ त्यक्त्वा गृहवासं दीक्षाभ्युपगमेन, तस्य फलं चैव - गृहवासत्यागस्य फलं प्रव्रज्या तां च त्यक्त्वा, विरुद्धासेवनेन, मोहपरतन्त्राः सन्तो न गृहिणः प्रकटवृत्त्या तस्य त्यागात् न च प्रब्रजिता विहितानुष्ठानाकरणात्, त एवंभूताः 'संसार
Jain Educationtional
For Private & Personal Use Only
w.jainelibrary.org