SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चवस्तुके. ॥ ३५ ॥ नच तेऽपि भवन्ति प्रायः क्षुदादयः अविकल्पं - मातृस्थानविरहेण धर्मस(धनमतेः प्रव्रजितस्य, धर्मप्रभावादेव, न चैकान्तेनैव ते - क्षुदादयः कर्त्तव्या मोहोपशमादिव्यतिरेकेण, यतो भणितमिति गाथार्थः ॥ १३ ॥ किं तदित्याहसो हु तवो कायवो जेण मणो मंगुलं न चिंतेइ । जेण न इंदिअहाणी जेण य जोगाण हायंति ॥ २१४॥ तद्धितः कर्त्तव्यम् - अनशनादि येन मनो मङ्गलम् - असुन्दरं न चिन्तयति, शुभाध्यवसायनिमित्तत्वात्कर्म्मक्षयस्य, तथा येन नेन्द्रियहानिः तदभावे प्रत्युपेक्षणाद्यभावात्, येन च योगाः- चक्रवालसामाचार्यन्तर्गता व्यापारा न हीयन्त इति गाथार्थः ॥ १४ ॥ देहेऽवि अपबद्ध जो सो गहणं करेइ अन्नस्स । विहिआणुट्टाणमिणंति कह तओ पावविसओत्ति २१५॥ देहेऽप्यप्रतिबद्धो यो विवेकात् स ग्रहणं करोत्यन्नस्य - ओदनादेर्विहितानुष्ठानमिति, न तु लोभाद्, यतश्चैवमतः कथमसौ पापविषयः १, एतेन 'कथं न पापविषय' इत्येतत् प्रत्युक्तमिति गाथार्थः ॥ १५ ॥ किञ्च - तत्थवि अ धम्मझाणं न य आसंसा तओ असुहमेव । सवमिअमणुट्टाणं सुहावहं होइ विन्नेअं ॥ २१६ तत्रापि च - अन्नग्रहणादौ धर्म्मध्यानं सूत्राज्ञासम्पादनात् न चाशंसा, सर्वत्रैवाभिष्वङ्गनिवृत्तेः, यतश्चैवं ततश्च सुखमेव, तत्रापि सर्वे - वस्त्रपात्रादि इय- एवमुक्तेन न्यायेन सूत्राज्ञासम्पादनादिना अनुष्ठानं साधुसम्बन्धि सुखावहं भवति विज्ञेयमिति गाथार्थः ॥ १६ ॥ एवं भावयतः सूत्रोक्ता चेष्टा सुखदैव, तदन्यस्य तु दुःखदेति सिद्धसाध्यता, तथा चाह Jain Education International For Private & Personal Use Only गृहत्यागस्य पापत्वनि रासः ॥ ३५ ॥ www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy