________________
Jain Educatio
तम्हा निरभिस्संगा धम्मज्झाणंमि मुणिअतत्ताणं । तह कम्म क्खयहेउं विअणा पुन्नाउ निद्दिट्ठा ॥ २०३॥ तस्मान्निरभिष्वङ्गाः- सर्वत्राशंसाविप्रमुक्ता धर्म्मध्याने तथा आल्हादके सति ज्ञाततत्त्वानां - मोहरहितानां तथा-तेन प्रकारेणान्यानुपादानलक्षणेन कर्म्मक्षयहेतुः वेदना - तथाविधात्मपरिणामरूपानपायिनी पुण्यान्निर्दिष्टा तत्त्वतः पुण्यफलमेवंविधेति गाथार्थः ॥ ३ ॥
नय एसा संजायइ अगारवासंमि अपरिचत्तंमि । नाभिस्संगेण विणा जम्हा परिपालणं तस्स ॥२०४॥ न चैषा-वेदना उक्तलक्षणा सज्जायते अगारवासे-गृहवासेऽपरित्यक्ते भावतः किमिति ?, नाभिष्वङ्गेण विना यस्मात् प्रतिपालनं तस्य - अगारवासस्य, न च तस्मिन् सतीयं भवतीति, विरोधादिति गाथार्थः ॥ ४ ॥ एतदेवाह -
आरंभपरिग्गहओ दोसा न य धम्मसाहणे ते उ । तुच्छत्ता पडिबंधा देहाहाराइतुलं तु ॥२०५॥
आरम्भपरिग्रहतो दोषाः - सङ्केशादयः, अगारवासे चावश्यं तावारम्भपरिग्रहाविति, अत्रान्तरे लब्धावसरः परः क्षपणकः कदाचिदेवं ब्रूयात्-उपकरणग्रहणेऽपि तुल्यमेतत्, इत्याशङ्कयाह-न च धर्म्मसाधने - वस्त्रपात्रादौ त एव दोषाः, कुतः ? - तुच्छत्वाद् - असारत्वात्तस्य, तथा अप्रतिबन्धात्-प्रतिबन्धाभावाद्, देहाहारादितुल्यत्वात् स्वला भवन्तोऽपि दोषाः | संमूर्च्छनजादयो देहाहारादितुल्यत्वात् बहुगुणा एवेति गाथार्थः ॥ ५ ॥
तम्हा अगारवासं पुन्नाओं परिच्चयंति धीमंता। सीओदगाइभोगं विवागकडुअंति न करिति ॥ २०६ ॥
tional
For Private & Personal Use Only
jainelibrary.org