SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ वोपलभ्यते एतत् स्तोकमध्यकार्य प्रायशो - बाहुल्येन न सेवन्ते, अतो विरतिपरिणामसामर्थ्यमेतदिति गाथार्थः ॥ ७० ॥ साम्प्रतं यदुक्तं 'श्रूयते चैतद्व्यतिकरविरहेणापि स इह भरतादीना' मित्येतत्परिजिहीर्षुराह आहच्चभावकहणं न य पायं जुज्जए इहं काउं । ववहारनिच्छया जं दोन्निवि सुत्ते समा भणिया ॥ १७१ ॥ कादाचित्कभावकथनं - भरतादिलक्षणं न च प्रायो युज्यते इह - विचारे कर्तुं किमित्यत आह-व्यवहारनिश्चयौ यतो नयौ द्वावपि सूत्रे समौ भणितौ- प्रतिपादितौ, भगवद्भिरिति गाथार्थः ॥ ७१ ॥ एतदेवाहजड़ जिणमयं पवज्जह ता मा ववहारणिच्छए मुअह । ववहारणउच्छेए तित्थुच्छेओ जओऽवस्सं ॥ १७२ ॥ यदि जिनमतं प्रपद्यध्वं यूयं ततो मा व्यवहारनिश्चयौ मुञ्चत - मा हासिष्ठाः किमित्यत्र आह-व्यवहारनयोच्छेदे तीर्थो. च्छे दो यतोऽवश्यम्, अतो व्यवहारतोऽपि प्रत्रजितः प्रत्रजित एव गाथार्थः ॥ ७२ ॥ एतदेव समर्थयति — ववहारपवत्तीइवि सुहपरिणामो तओ अ कम्मस्स । नियमेणमुवसमाई णिच्छयणयसम्मयं तत्तो ॥ १७३ ॥ व्यवहारप्रवृत्याऽपि - चैत्यवन्दनादिविधिना प्रत्रजितोऽहमित्यादिलक्षणया शुभपरिणामो भवति, 'ततश्च' शुभपरिणामात् कम्मणः- ज्ञानावरणीयादेः नियमेनोपशमादयो भवन्ति, आदिशब्दात् क्षयक्षयोपशमादिपरिग्रहः, निश्चयनयसम्मतं 'तत' इति ततः- उपशमादेर्विरतिपरिणामो भवतीति गाथार्थः ॥ ७३ ॥ यच्चोकं 'सति तस्मिन्निदं विकल'मित्यादि, तन्निराकरणार्थमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy