________________
श्रीपञ्चवस्तु.
॥ २८ ॥
Jain Educa
सच्चखु जिणाए सो विरईपरिणामसो (मो) उपवज्जा । एसो उ तस्सुवाओ पायं ता कीरइ इमं तु ॥१६८॥
सत्यमेव जनादेशो - जिनवचनमित्थंभूतमेव यदुत विरतिपरिणाम एव प्रव्रज्या, नात्रान्यथाभावः, तथाऽप्यधिकृत वि धानमवन्ध्यमेवेति एतदेवाह - एष पुनः - चैत्यवन्दनादिविधिना सामायिकारोपणव्यतिकरः तस्य - विरतिपरिणामस्यो पायोहेतुः प्रायो - बाहुल्येन यद्यस्मात् तत् तस्मात् क्रियत एवेदं चैत्यवन्दनादि प्रव्रज्याविधानमिति गाथार्थः ॥ ६८ ॥
उपायतामाह -
जिणपण्णत्तं लिंगं एसो उ विही इमस्स गहणंमि । पत्तो मएत्ति सम्मं चिंतें तस्सा तओ होइ ॥ १६९ ॥
जिनप्रज्ञप्तं लिङ्गं - तीर्थकरप्रणीतमेतत् साधुचिह्नं रजोहरणमिति, एष च - चैत्यवन्दनादिलक्षणो विधिरस्य - लिङ्गस्य ग्रहणेअङ्गीकरणे प्राप्तो मयाऽत्यन्तदुराप इत्येवं चिन्तयतः सतः शुभभावत्वादसौ - विरतिपरिणामो भवतीति गाथार्थः ॥ ६९ ॥ कथं गम्यत इति चेत् ?, उच्यते
लक्खिज्जइ कज्जेणं जहा तं पाविऊण सप्पुरिसा । नो सेवंति अकजं दीसइ थेपि पाएणं ॥ १७० ॥ लक्ष्यते - गम्यते कार्येणासौ विरतिपरिणामः कथमित्याह यस्मात् तं चैत्यवन्दनपुरस्सरं सामायिकारोपणविधिं सम्प्राप्य सत्पुरुषाः - महासत्त्वाः प्रब्रजिता वयमिति न सेवन्ते अकार्य - परलोकविरुद्धं किञ्चित् दृश्यते एतत् - प्रत्यक्षेणै
emational
For Private & Personal Use Only
विधेरावश्यकता
।। २८ ।।
jainelibrary.org