________________
Jain Educa
श्रूयते च एतद्व्यतिकरविरहेणापि - चैत्यवन्दनादिसम्बन्धमन्तरेणापि सः - विरतिपरिणामः इह - जिनशासने भरतादीनां | महापुरुषाणामिति, कथमिति चेत्, उच्यते, तदभावे - विरतिपरिणामाभावे भावतः अभावः - असम्भवः यत् - यस्माद्भणितः - उक्तः केवलस्य श्रुते-प्रवचन इति गाथार्थः ॥ ६५ ॥
संपाडिए विअ तहा इमंमि सो होइ नत्थि एअंपि । अंगारमहगाई जेण पवज्जंतऽभव्वावि ॥ १६६ ॥
सम्पादितेऽपि च तथा अस्मिन् - चैत्यवन्दनादौ व्यतिकरे सति सः - विरतिपरिणामो भवति नास्त्येतद् अत्राप्यनियम एवेति एतदेवाह - अङ्गारमर्द्दकादयो येन कारणेन प्रतिपद्यन्ते अधिकृतव्यतिकरमभव्या अपि, आसतां तावदन्य इति गाथार्थः ॥ ६६ ॥ किञ्च तच्चैत्यवन्दनादिविधिना सामायिकारोपणं सति वा विरतिपरिणामे क्रियेतासति वा ?, उभयथापि दोषमाह
सइ तंमि इमं विहलं असइ मुसावायमो गुरुस्सावि । तम्हा न जुत्तमेअं पव्वज्जाए विहाणं तु ॥ १६७ ॥
सति तस्मिन् - विरतिपरिणामे इदं - चैत्यवन्दनादिविधिना सामायिकारोपणं विफलं भावत एव तस्य विद्यमानत्वादन्ययतावित्र, असति - अविद्यमाने विरतिपरिणामे सामायिकारोपणं कुर्वतः मृषावाद एव गुरोरपि, असदध्यारोपणाद्, | अपिशब्दाच्छिष्यस्यापि, अयताविव अप्रतिपत्तेः यस्मादेवं तस्मान्न युक्तमेतत् - चैत्यवन्दनादिविधिना सामायिकारोपणरूपं प्रव्रज्याया विधानम्, एवमुभयथापि दोषदर्शनादिति गाथार्थः ॥ ६१ ॥ एष पूर्वपक्ष:, अत्रोत्तरमाह
emational
For Private & Personal Use Only
www.jainelibrary.org