SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीपश्चवस्तुके. ॥२७॥ आचार्य: कृता धर्मकथा 5ACANCSCRECARSAAR क्षायिकभावे च केवलं ज्ञानं, प्रतिपक्षयोजना सर्वत्र कार्येति, कैवल्ये प्रतिपूर्णे प्राप्ते परमाक्षरो मोक्ष इति गाथार्थः॥५॥ पञ्चदशाङ्ग:-पञ्चदशभेदः एषः-अनन्तरोदितः समासतः-सङ्केपेण मोक्षसाधनोपायः-सिद्धिसाधनमार्गः, अत्र-मोक्षसाधनोपाये बहु प्राप्तं त्वया, शीलं यावदित्यर्थः, स्तोकं सम्प्राप्तव्यं, क्षायिकभावकेवलज्ञानद्वयमिति गाथार्थः ॥६॥ तत्तथा कर्त्तव्यं त्वया यथा तत्-शेषं प्राप्नोषि स्तोककालेन, किमित्यत आह-शीलस्य नास्त्यसाध्यं जगति, तत्प्राप्त त्वया, प्रव्रज्या प्रतिपन्नेति गाथार्थः ॥ ६१॥ लब्ध्वा शीलमेतत्, किंविशिष्टमित्याह-चिन्तामणिकल्पपादपाभ्यधिकं, निर्वाणहेतुत्वेन, एतदेवाह-इह लोके परलोके च तथा सुखावह परमुनिभिश्चरितम्-आसेवितमिति गाथार्थः ॥ ६२ ॥ |एतस्मिन्- शीले अप्रमादो-यत्नातिशयः कर्त्तव्यः सदा-सर्वकालं 'जिनेन्द्रप्रज्ञप्ते' तीर्थकरप्रणीते, अप्रमादोपायमेवाहभावयितव्यं च तथा-शुभान्तःकरणेन विरसं संसारनैर्गुण्यं वैराग्यसाधनमिति गाथार्थः ॥ ६३ ॥ ___ आह विरइपरिणामोपवजा भावओ जिणाएसोजता तह जइअवं जह सो होइत्ति किमणेणं? ॥१६४॥ आह परः, किमाह ?, विरतिपरिणामः-सकलसावद्ययोगविनिवृत्तिरूपः प्रव्रज्या भावतः-परमार्थतो जिनादेशः-अर्हद्वचनमित्थं व्यवस्थितमिति, यत्-यस्मादेवं तत्-तस्मात्तथा यतितव्यं-तथा प्रयत्नः कार्यः यथाऽसौ-विरतिपरिणामो भवतीति, किमन्येन-चैत्यवन्दनादिक्रियाकलापेन ? इति गाथार्थः॥ ६४ ॥पर एव स्वपक्षं समर्थयन्नाह-- |सुबइअ एअवइअरविरहेणऽवि स इह भरहमाईणं। तयभावंमि अभावो जंभणिओ केवलस्ससुए॥१६५॥ ॥ २७॥ Jain Educati o nal For Private & Personel Use Only ww.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy