________________
पश्ञ्चव. ५
तत्र लोकस्यो द्योतकरं चिन्तयित्वा उत्सारयति संयमयोगं तदनन्तरभाविक्रियांसेवनेन असम्भ्रान्तः सन् नमस्कारेण" नमो अरहंताण" मित्यनेन, कायोत्सर्ग इति व्याख्यातं, साम्प्रतं सामायिकत्रयपाठ इति प्रतिपादयन्नाह - तत्पूर्वकं चनमस्कारपूर्वकं च वारास्ततस्तिस्रः इति गाथार्थः ॥ ४२ ॥ किमित्याह -
माइम
सीसो अणुकड्डई तहा चेव । अप्पाणं कयकिच्चं मन्नं तो सुद्धपरिणामो ॥१४३॥ दारं सामायिकमिह पठति गुरुः शिष्यकोऽप्यनुपठति ' तथैव' गुरुविधिना, किंविशिष्टः सन्नित्याह - आत्मानं ' कृतकृत्यं' निष्ठितार्थं मन्यमानः शुद्धपरिणाम इति गाथार्थः ॥ ४३ ॥ सामायिकत्रयपाठ इति प्रतिपादितम्, इदानीं प्रदक्षिणां चैवेत्यादि प्रतिपादयन्नाह
तत्तो अ गुरु वासे गिव्हिअ लोगुत्तमाण पाएसुं । देइ अ तओ कमेणं सवेसिं साहुमाईणं ॥ १४४ ॥ 'ततश्च' तदनन्तरं गुरुवसान् गृहीत्वा आचार्यमन्त्रेण अभिमन्त्र्य अनाचार्यस्तु पश्ञ्चनमस्कारेण 'लोकोत्तमानां' जिनानां पद्भयां ददाति, मन्त्र नमस्कारपूर्वकमेव, ददाति च ततः - तदनन्तरं 'क्रमेण यथाज्येष्ठार्यतालक्षणेन सर्वेभ्यो यथासन्निहितेभ्यः साध्वादिभ्यः, आदिशब्दाच्छ्रावका दिपरिग्रह इति गाथार्थः ॥ ४४॥
तो वंदणगं पच्छा सेहं तु दवावए ठिओ संतो। वंदित्ता भणइ तओ संदिस्सह किं भणामोति ॥१४५॥ ततो वन्दनं पश्चात् - लोकोत्तमादिवासप्रदानोत्तरकालं शिष्यकं तु दापयति, स्थितः सन् ऊर्ध्वस्थानेन वन्दित्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org