________________
रजोहरण: स्य लिंगत्वं
5-
१३०-३२
'ततः' तदनन्तरं वन्दनं समं-देवाद्यभिमुखमेव दत्त्वा शिक्षको भणति, किमिति तदाह-इच्छाकारेण प्रव्राजयत, अस्मानिति गम्यते एवेति गाथार्थः॥२९॥
इच्छामोत्ति भणित्ता उट्टेउं कड्डिऊण मंगलयं । अप्पेइ रओहरणं जिणपन्नत्तं गुरू लिंगं ॥ १३०॥ ___ इच्छाम इति भणित्वा विशुद्धवचसा उत्थातुम् ऊर्द्धस्थानेन 'आकृष्य मङ्गलक' पठित्वा पञ्चनमस्कारम् अर्पयति है रजोहरणं जिनप्रज्ञप्तं गुरुर्लिङ्गमिति गाथार्थः ॥ ३० ॥ लिङ्गदान एव विधिमाहपुवाभिमुहो उत्तरमुहो व देजाऽहवा पडिच्छिज्जा । जाए जिणादओवा दिसाएँ जिणचेइआई वा ॥१३१॥ ___ पूर्वाभिमुख उत्तराभिमुखो वा दद्याद् गुरुः अथवा प्रतीच्छेत् शिष्यः, यस्यां जिनादयो वा दिशि, जिनाः-मनः
पर्यायज्ञानिनः अवधिसम्पन्नाश्चतुर्दशपूर्वधरा नवपूर्वधराश्च, जिनचैत्यानि वा यस्यां दिशि आसन्नानि, तदभिमुखो सदद्यात् अथवा प्रतीच्छेदिति गाथार्थः ॥ ३१॥ रजोहरणं लिङ्गमुक्तम् , साम्प्रतं तच्छब्दार्थमाह
हरइ रयं जीवाणं वज्झं अब्भंतरं च जं तेणं । रयहरणंति पवुच्चइ कारणकजोवयाराओ ॥१३२॥ | 'हरति' अपनयति रजो जीवानां बाह्य-पृथिवीरजःप्रभृति अभ्यन्तरं च-बध्यमानकर्मरूपं यद्-यस्मात् तेन कारणेन रजोहरणमिति प्रोच्यते, रजो हरतीति रजोहरणम् , अभ्यन्तररजोहरण(णाभाव)माशक्याह-कारणे कार्योपचारात्, संयमयोगो रजोहरस्तत्कारणं चेदमिति गाथार्थः॥ ३२ ॥ एतदेव प्रकटयति
455125E
Jan Education International
For Private & Personal Use Only
www.jainelibrary.org