SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चवस्तुके. ॥ २३ ॥ Jain Education संजमजोगा एत्थं रयहरणा तेसि कारणं जेणं । रयहरणं उवयारो भण्णइ तेणं रओ कम्मं ॥ १३३॥ 'संयमयोगाः ' प्रत्युपेक्षितप्रमृष्टभूभागस्थानादिव्यापाराः 'अत्र' अधिकारे रजोहरणाः, वध्यमानकर्म्महरा इत्यर्थः, 'तेषां' संयमयोगानां कारणं येन कारणेन रजोहरणमित्युपचारः तेन हेतुनेति, रजः स्वरूपमाह - भण्यते रजः कर्म वध्यमानकमिति गाथार्थः ॥ ३३ ॥ केई भांति मूढा संजमजोगाण कारणं नेवं । रयहरणंति पमज्जणमाईहुवघायभावाओ ॥ १३४ ॥ केचन भन्ति मूढाः- दिगम्बरविशेषाः [ काष्ठाः ] 'संयमयोगानाम्' उक्तलक्षणानां कारणं नैव वक्ष्यमाणेन प्रका रेण रजोहरणमिति, यथा न कारणं तथाऽऽह - ' प्रमार्जनादिभिः' प्रमार्जनेन संसर्जनेन च उपघातभावात् प्राणिनामिति गाथार्थः ॥ ३४ ॥ एतदेवाह मूइंगलिआईणं विणाससंताणभोगविरहाई । रयदरिथजणसंसज्जणाइणा होइ उवघाओ ॥ १३५ ॥ प्रमार्जने सति 'मूइंगलिकादीनां' पिपीलिकामत्कोटप्रभृतीनां विनाशसन्तानभोग्यविरहादयो भवन्तीति वाक्यशेषः, रजोहरणसंस्पर्शनादल्पकायानां विनाशः, एवं सन्तानः - प्रबन्धगमनं भोग्यं - सिक्थादि एतद्विरहस्तु भवत्येवेत्युपघातः, तथा 'रजोदरी स्थगन संसर्जनादिना भवत्युपघात' इति च, सम्भवति च प्रमार्जने सति रजसा दरिस्थगनं तत्संसर्जने च सत्त्वोपघात इति गाथार्थः ॥ ३५ ॥ एष पूर्वपक्षः, अत्रोत्तरमाह For Private & Personal Use Only रजोहरण पूर्वपक्ष:गा. १३३-३५ ॥ २३ ॥ www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy