________________
श्रीपञ्चवस्तुके.
॥ २२ ॥
Jain Educatio
स्तुतिवृद्धिरात्मनैवेति- आचार्या एव छन्दःपाठाभ्यां प्रवर्द्धमानाः स्तुतीर्ददतीति गाथार्थः ॥ २६ ॥ वन्दनविधिमाहपुरओ उ ठंति गुरवो सेसावि जहकमं तु सहाणे । अक्खलिआइ कमेणं विवजए होइ अविही उ ॥१२७॥
I
पुरत एव तिष्ठन्ति गुरवः - आचार्याः 'शेषा अपि' सामान्यसाधवः 'यथाक्रममेव' ज्येष्ठार्यतामङ्गीकृत्य स्वस्थाने तिष्ठन्ति, तत्रास्खलितादि-न स्खलितं न मिलितमित्यादि ' क्रमेण' परिपाठ्या सूत्रमुच्चारयन्तीति गम्यते, विपर्यये स्थानमुच्चारणं वा प्रति भवति अविधिरेव वन्दन इति गाथार्थः ॥ २७ ॥ एतदेवाह
खलियमिलियवाइद्धं हीणं अच्चक्खराइदोसज्जुअं । वदंताणं नेआऽसामायारित्ति सुत्ताणा ॥ १२८॥ दारं ॥
स्खलितम् उपलाकुलायां भूमौ लाङ्गलवत् मिलितं विसदृशधान्यमेलकवत् व्याविद्धं विपर्यस्तरलमालावत् हीनंन्यूनं अत्यक्षरादिदोपयुक्तमिति, अत्यक्षरम्-अधिकाक्षरं, आदिशब्दादप्रतिपूर्णादिग्रहः इत्थं वन्दमानानां ज्ञेया असामाचारी-अस्थितिरिति 'सूत्राज्ञा' आगमार्थ एवंभूत इति गाथार्थः ॥ २८ ॥ व्याख्यातं चैत्यवन्दनद्वारम् अधुना रजोहरणद्वारं व्याचिख्यासुराह -
वंदिय पुणुट्टिआणं गुरूण तो वंदणं समं दाउं । सेहो भणाइ इच्छाकारेणं पवयाबेह ॥ १२९ ॥ वन्दित्वा द्वितीयप्रणिपातदण्डकाव सानवन्दनेन पुनरुत्थितेभ्यः प्रणिपातान्निषण्णोत्थानेन 'गुरुभ्यः' आचार्येभ्यः
ational
For Private & Personal Use Only
चैत्यवन्द - नादि गा. १२७-२९
॥ २२ ॥
jainelibrary.org