________________
सूत्रदानचैत्यवन्दनादि गा. १२४-२६
| 'शोभनदिने' विशिष्टनक्षत्रादियुक्ते 'विधिना' चैत्यवन्दननमस्कारपाठनपुरस्सरादिना दद्यात् आलापकेन, न तु प्रथ-
मेव पट्टिकालिखनेन, 'सुविशुद्धं' स्पष्टं सामायिकादिसूत्रं प्रतिक्रमणेर्यापथिकादीत्यर्थः, पात्रं ज्ञात्वा यद्योग्यं तद् दद्यात्, न काव्यत्ययेनेति गाथार्थः॥ २३ ॥ उक्तं सूत्रदानं, शेषविधिमाह| तत्तोअ जहाविहवं पूअं स करिज वीयरागाणं । साहण य उवउत्तो एअंच विहिं गुरू कुणइ ॥१२॥ | 'ततश्च' तदुत्तरकालं 'यथाविभवं' यो यस्य विभवः, विभवानुरूपमित्यर्थः, पूजां 'सः' प्रविब्रजिषुः कुर्यात् वीतरागाणां-जिनानां माल्यादिना साधूनां वस्त्रादिना, उपयुक्तः सन्निति, 'एनं च' वक्ष्यमाणलक्षणं विधिं गुरुः-आचार्यः करोति, सूत्रस्य त्रिकालगोचरत्वप्रदर्शनार्थ वर्तमाननिर्देश इति गाथार्थः ॥ २४ ॥ चिइवंदणरयहरणं अट्टा सामाइयस्स उस्सग्गो।सामाइयतिगकड्डण पयाहिणं चेव तिक्खुत्तो॥१२५॥दारं। है। चैत्यवन्दनं करोति रजोहरणमर्पयति अष्टा गृह्णाति, सामायिकस्योत्सर्ग इति-कायोत्सर्ग च करोति, 'सामायिक
त्रयाकर्षणमिति-तिस्रो वाराः सामायिकं पठति प्रदक्षिणां चैव त्रिकृत्वः-तिस्रो वाराः शिष्यं कारयतीति गाथासमुदायार्थः॥ २५ ॥ अवयवार्थ त्वाहसेहमिह वामपासे ठवित्तु तो चेइए पवंदति । साहहिं समं गुरवो थुइवुढी अप्पणा चेव ॥ १२६ ॥ शिष्यकमिह प्रव्रज्याभिमुखं वामपार्श्वे स्थापयित्वा ततश्चैत्यानि-अर्हत्प्रतिमालक्षणानि प्रवन्दन्ते साधुभिः समं गुरवः,
nin Cinema
For Private Personal use only
www.jainelibrary.org