________________
श्रीपञ्चवस्तु के.
॥ २१ ॥
Jain Educat
यथैव तु मोक्षफला भवतीति योगः, आज्ञा आराधिता - अखण्डिता सती जिनेन्द्राणां सम्बन्धिनीति, संसारदुःखफलदा तथैव च विराधिता - खण्डिता भवतीति गाथार्थः ॥ १९ ॥ किञ्च -
जह वाहिओ अ किरियं पवजिउं सेवई अपत्थं तु । अपवण्णगाउ अहियं सिग्धं च स पावइ विणासं ॥१२०॥ यथा व्याधितस्तु-कुष्ठादिग्रस्तः 'क्रियां प्रतिपत्तुं' चिकित्सामाश्रित्य सेवते अपथ्यं तु स किमित्याह - अप्रपन्नात् सकाशाद् अधिकं शीघ्रं च स प्राप्नोति विनाशम्, अपथ्य सेवनप्रकटितव्याधिवृद्धेरिति गाथार्थः ॥ २० ॥ एमेव भावकिरिअं पवजिउं कम्मवाहिखयहेऊ । पच्छा अपत्थसेवी अहियं कम्मं समजिइ ॥ १२१ ॥ एवमेव भावक्रियां प्रत्रज्यां प्रतिपत्तुं किमर्थमित्याह - कर्म्मव्याधिक्षयहेतोः, पश्चादपथ्यसेवी - प्रव्रज्याविरुद्धकारी अधिकं कर्म्म समर्जयति, भगवदाज्ञाविलोपनेन क्रूराशयत्वादिति गाथार्थः ॥ २१ ॥ कथेति व्याख्याता, परीक्षामाहअब्भुवगपि संतं पुणो परिक्खिज्ज पवयणविहीए। छम्मासं जाऽऽसज्ज व पत्तं अद्धाऍ अप्पबहुं ॥ १२२॥ अभ्युपगतमपि सन्तं पुनः परीक्षेत प्रवचनविधिना - स्वचर्याप्रदर्शनादिना कियन्तं कालं यावदित्याह - पण्मासं यावदासाद्य वा पात्रमद्धायाः अल्पबहुत्वम्, अद्धा - कालः सपरिणामके पात्रविशेषे अल्पतर इतरस्मिन् बहुतरोऽपीति गाथार्थः ॥ २२ ॥ परीक्षेति व्याख्यातं, साम्प्रतं सामायिकादिसूत्रमाह - सोभणदिणंमि विहिणा दिजा आलावगेण सुविसुद्धं । सामाइआइसुत्तं पत्तं नाऊण जं जोग्गं ॥ १२३ ॥
ational
For Private & Personal Use Only
*340
आज्ञाराधनाफलं प
रीक्षादानं
च गा. १२०-२३
॥ २१ ॥
w.jainelibrary.org