SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ संज्ञाभेदेविवेकः |गा. ९७ दीसंति अ केइ इहं सइ तंमी बज्झचायजुत्ताऽवि । तुच्छपवित्ती अफलं दुहावि जीवंकरेमाणा ॥९७॥ | दृश्यन्ते च केचिदत्र-लोके सति तस्मिन्-अविवेके 'बाह्यत्यागयुक्ता अपि' स्वजनादित्यागसमन्विता अपि 'तुच्छ- प्रवृत्त्या' अविवेकात् तथाविधारम्भाद्यसारप्रवृत्त्या अफलं 'द्विधापि' इहलोकपरलोकापेक्षया जीवितं कुर्वन्तः सन्तः इति गाथार्थः॥ ९७ ॥ तथा च चइऊण घरावासं आरंभपरिग्गहेसु वहति । जं सन्नाभेएणं एअं अविवेगसामत्थं ॥९८॥ त्यक्त्वाऽपि गृहवासं प्रव्रज्याङ्गीकरणेनारम्भपरिग्रहयोः उक्तलक्षणयोः वर्तन्ते यत्-यस्मात् 'संज्ञाभेदेन' देवाद्यर्थोऽयमित्येवंशब्दभेदेन, 'एतद्' इत्थंभूतम् 'अविवेकसामर्थ्यम्' अज्ञानशक्तिः इति गाथार्थः ॥ ९८ ॥ एतदेव दृष्टान्तद्वारेणाह| मंसनिवित्तिं काउं सेवइ दंतिक्कयंति धणिभेआ। इअ चइऊणारंभं परववएसा कुणइ बालो ॥९९॥ | मांसनिवृत्तिं कृत्वा कश्चिदविवेकात् सेवते दन्तिक्ककमिति ध्वनिभेदात्-शब्दभेदात् 'इय' एवं त्यक्त्वाऽऽरम्भम् "एकग्रहणे तजातीयग्रहणमिति” न्यायात् परिग्रहं च 'परव्यपदेशाद्' देवादिव्यपदेशेन करोति 'बाल' अज्ञः इति गाथार्थः ॥ ९९ ॥ किमित्येतदेवमित्यत आह| पयईए सावजं संतं जं सव्वहा विरुद्धं तु । धणिभेअंमिवि महुरगसीअलिगाइव्व लोगम्मि ॥१०॥ Jain Educatio n al For Private & Personal Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy