________________
C
lot
ACANCOMMERCONSOLX
श्रद्धादिभावादेव कारणाद् 'आगमपरतन्त्रता' सिद्धान्तपारतन्त्र्यं नवरं, नान्यन्मूलमिति गाथार्थः॥६॥एतदेवाह-यस्माद् न धर्ममार्गे परलोकगामिनि मुक्त्वा आगममेकं परमार्थतः इह प्रमाणं प्रत्याख्यानादि विद्यते छद्मस्थानां प्राणिनां,तस्मादत्रैवआगमे कुग्रहान् विहाय यतितव्यं, जिज्ञासाश्रवणश्रवणानुष्ठानेषु यत्नः कार्यो, नागीतार्थजनाचरणपरेण भवितव्यमिति गाथार्थः ॥ ७॥ प्रत्यपायप्रदर्शनद्वारेणैतदेवाहसुअवज्झायरणरया पमाणयंता तहाविहं लोअं । भुअणगुरुणो वरागा पमाणयं नावगच्छंति ॥१७०८॥ सुत्तेण चोइओ जो अण्णं उद्दिसिअतंण पडिवज्जे । सो तत्तवायवज्झो न होइ धम्ममि अहिगारी॥१७०९॥ तीअबहुस्सुयणायं तकिरिआदरिसणा कह पमाणं?। वोच्छिजंती अइमा सुद्धा इह दीसई चेव ॥१७१०॥ आगमपरतंतेहिं तम्हा णिचंपि सिद्धिकंखीहिं । सबमणुटाणं खलु कायवं अप्पमत्तेहिं ॥ १७११॥
'श्रुतबाह्याचरणरताः' आगमबाह्यानुष्ठानसक्ताः प्रमाणयन्तः सन्तः केनचिच्चोदनायां क्रियमाणायां 'तथाविधं लोक श्रुतबाह्यमेवागीतादिकं, किमित्याह 'भुवनगुरोः' भगवतः तीर्थकरस्य वराकास्तेऽप्रमाणतामापत्तिसिद्धां नावगच्छन्ति, तथाहि-यदि ते सूत्रबाह्यस्य कर्तारः प्रमाणं भगवास्तहि तद्विरुद्धसूत्रार्थवक्ता अप्रमाणमिति महामिथ्यात्वं बलादापद्यत इति गाथार्थः ॥ ८॥ अत एव प्रक्रमाद्धर्मानधिकारिणमाह-सूत्रेण चोदितः, इदमित्थमुक्तम् , एवं यः सत्त्वः अन्य प्राणिनमुद्दिश्यात्मतुल्यमुदाहरणतया तन्न प्रतिपद्यते, सौत्रमुक्तं, स एवंभूतः 'तत्त्ववादबाह्यः' परलोकमंगीकृत्य परमार्थवाद-12
.
LOOK
Jain Educati
o nal
For Private & Personal use only
ainelibrary.org