________________
Jain Education
सवण्णुसङ्घदरिसी निरुवम सुहसंगओ उ सो तत्थ । जम्माइदोसरहिओ चिट्ठइ भयवं सया कालं ॥ १७०० ॥ एयाणि पंच वत्थू आराहिंता जहागमं सम्मं । ती अद्धाऍ अनंता सिद्धा जीवा धुअकिलेसा ॥१७०१ ॥ एयाणि पंच वत्थू आराहित्ता जहागमं सम्मं । इण्हिपि हु संखिज्जा सिज्झति विवक्खिए काले ॥ १७०२॥ एयाणि पंच वत्थू आराहित्ता जहागमं सवं । एसद्धाऽणता सिज्झिस्संती धुवं जीवा ॥ १७०३ ॥ एयाणि पंच वत्थू एमेव विराहिउं तिकालंमि । एत्थ अणेगे जीवा संसारपवडगा भणिआ ॥ १७०४ ॥
आराधकश्च जीवः 'तत' आराधकत्वात् क्षपयित्वा 'दुष्कृतं कर्म्म' प्रमादजं ज्ञानावरणीयादि जायते विशुद्धजन्मा, जातिकुलाद्यपेक्षया, योगोऽपि पुनरपि चरणस्य, तद्भावभाविन इति गाथार्थः ॥ ९८ ॥ आराधनाया एव प्रधानफलमाह - आराध्यैवमुक्तप्रकारं किमित्याह - 'सप्ताष्टभवेभ्यः' सप्ताष्टजन्मभ्यः आरत एव, त्रिषु वा चतुर्षु वा जन्मसु, किमित्याह - ' त्रैलोक्यमस्तकस्थः सकललोकचूडामणिभूतां गच्छति 'सिद्धिं' मुक्तिं 'नियोगेन' अवश्यंतयेति गाथार्थः ॥ ९९ ॥ तत्र च गतः सन्- सर्वज्ञः सर्वदर्शी, नाचेतनो गगनकल्पः, तथा निरुपमसुखसङ्गतश्च, सकलव्यावाधानिवृत्तेः, 'स' आराधको मुक्तः 'तत्र' सिद्धौ 'जन्मादिदोषरहितः ' जन्मजरादिमरणादिरहितः संस्तिष्ठति भगवान् 'सदाकालं' सर्वकालमेव, नत्वभावीभवति, यथाऽऽहुरन्थे - 'प्रविध्यातदीपकल्पोपमो मोक्षः' इति गाथार्थः ॥ ७०० ॥ फलदर्शनद्वारेण शास्त्रमुपसंहरतिएतानि पञ्च वस्तूनि - प्रव्रज्याविधानादीनि 'आराध्य' संपाद्य 'यथाss' यथासूत्रं 'सम्यग् ' अवैपरीत्येनातीताद्धा-
For Private & Personal Use Only
elibrary.org