________________
श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे
॥ २३८ ॥
Jain Education
जे सेसा सुक्काए अंसा जे आवि पम्हलेसाए । ते पुण जो सो भणिओ मज्झिमओ बीअरागेहिं ।। १६९५॥ तेऊलेसाए जे अंसा अह ते उ जे परिणमित्ता । मरइ तओऽवि हु णेओ जहण्णमाराहओ इत्थ ॥ १६९६ ॥ एसो पुण सम्मत्ताइभंगओ चेव होइ विपणेओ । ण उ लेसामित्तेणं तं जमभवाणवि सुराणं ॥१६९७॥
शुक्कायाः लेश्यायाः, सर्वोत्तमायाः, उत्कृष्टमंशकं विशुद्धं 'परिणम्य' तद्भावमासाद्य यो म्रियते कश्चित् सत्त्वः स नियमा देवोत्कृष्ट राधको भवति, स्वल्पभवप्रपञ्च इति गाथार्थः ॥ ९४ ॥ मध्यमाराधकमाह - ये शेषा:- उत्कृष्टं विहाय शुक्लायाः 'अंशाः ' भेदाः ये चापि पद्मलेश्यायाः सामान्येन तान् पुनर्यः परिणम्य म्रियते स मध्यमो भणितो- मध्यमाराधको 'वीतरागैः' जिनैरिति गाथार्थः ॥ ९५ ॥ जघन्यमाराधकमाह - तेजोलेश्यायाः ये अंशाः प्रधानाः अथवा तान् यः परिणम्यांशकान् कांश्चित् म्रियतेऽसावप्येवंभूतो ज्ञेयः किम्भूत इत्याह- जघन्याराधकोऽत्र - प्रवचन इति गाथार्थः ॥ ९६ ॥ अस्यैव सुसंस्कृतभोजनलवणकल्पं विशेषमाह एष पुनर्लेश्याद्वारोक्ताराधकः 'सम्यक्त्वादिसंगत एव' सम्यक्त्वज्ञानतद्भावस्थायिचरणयुक्त एव भवति विज्ञेय आराधकः, न तु लेश्यामात्रेण केवलेनाराधकः, कुत इत्याह- 'तत्' लेश्यामात्रं 'यद्' यस्मात् कारणात् अभव्यानामपि सुराणां भवति, योश्याश्च म्रियन्ते तल्लेश्या एवोत्पद्यन्त इति गाथार्थः ॥ ९७ ॥ आराधकगुणमाहआराहगो अ जीवो तत्तो खविऊण दुक्कडं कम्मं । जायइ विसुद्धजम्मा जोगोऽवि पुणोवि चरणस्स १६९८ आराहिऊण एवं सत्तट्टभवाणमारओ चेव । तेलुक्कमत्थअत्थो गच्छइ सिद्धिं णिओगेणं ॥ १६९९ ॥
For Private & Personal Use Only
आराधनाभेदः
॥ २३८ ॥
nelibrary.org